पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६७३
बालमनोरमा
            ३२०८ । समि मुष्टौ । (३-३-३६)

मलस्य संग्राहः । “मुष्टौ' किम् । द्रव्यस्य संग्रह ।

           ३२०९ । परिन्योनणोर्दूतात्रेषयोः । (३-३-३७)

परिपूर्वान्नयतेनिपूर्वादिणश्च घञ्स्यात्क्रमेण चूते अश्रेषे च विषये । परिणायेन शारान्हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्याय: । उचितमि त्यर्थः । “दूतात्रेषयोः' किम् । परिणयो विवाहः । न्ययो नाशः ।

           ३२१० । परावनुपात्यय इणः । (३-३-३८)

क्रमप्राप्तस्यानतिपातोऽनुपात्यय । तव पर्यायः । * अनुपात्यये' किम् । कालस्य पययः अतिपात इत्यर्थः ।

           ३२११ । व्युपयोः शेतेः पर्याये । (३-३-३९)

तव विशाय : । तव राजोपशाय: । * पर्याये' किम् । विशयः संशयः । उपशयः समीपशयनम् ।

             ३२१२ । हस्तादाने चेरस्तेये । (३-३-४०)

हस्तादान इत्यनेन प्रत्यासक्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । “हस्ता दाने' किम् । वृक्षाग्रस्थानां फलानां यष्टया प्रचयं करोति । “अस्तेये' किम् ।

पुष्पप्रचयध्वायण ।

   ३२१३ । निवासचितिशरीरोपसमाधानेष्वादेश्च कः । (३-३-४१)

घनित्यर्थः । 'ग्रहदृनिश्चिगमश्च' इत्यप्रत्ययस्य वक्ष्यमाणस्यापवादः । समि मुष्टौ ॥ समि त्युपपदे ग्रहधातोर्घञ् स्यात् मुष्टिविषये धात्वर्थे गम्ये इत्यर्थ । मलुस्य सङ्गाह इति ॥ दृढग्रहण मुष्टरित्यर्थः । परिन्योः ॥ यूते अश्रेषे चेति ॥ टतविषये नयने अभ्रषविषये गमने च विद्यमानादित्यर्थः । अचोऽपवादः । शारान् अक्षान् । एषोऽत्र न्याय इति ॥ अत्रेषेण वर्तनमित्यर्थ. । उचितख्यार्थस्य अनपचारः अभ्रषः । तदाह । उचितमिति ॥ परावनुपात्यय इणः ॥ परौ उपपदे इणधातोर्घञ् अनुपात्यये गम्ये इत्यर्थः । तव पर्याय इति ॥ अनतिक्रमणमित्यर्थः । कालस्य पर्यय इति ॥ अतिक्रम इत्यर्थः । तदाह । अतिपात इति ॥ व्युपयोः शेतेः ॥ वि, उप, इत्युपपदयोः शीडधातोः घञ् स्यात् पर्याये गम्ये इत्यर्थः, अजपवादः । पर्याय. प्राप्तावसरता । हस्तादाने । हस्तादाने गम्ये चिञ्धातोर्घञ् न तु स्तेये इत्यर्थः । ननु वृक्षशिखरमात्रमारुह्य पुष्पापचय करोतीत्यत्राति व्याप्तिमाशङ्कय आह । प्रत्यासत्तिरिति ॥ आदेयस्य पुष्पादिद्रव्यस्य भूमिस्थितपुरुषीय हस्तग्रहणयोग्यावस्थितिरित्यर्थ । पुष्पप्रचयञ्चैौर्येणेति ॥ करोतीति शेषः । निवास ॥