पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

वृ' इति लुप्तपञ्चमीकम्। नीवारा : । *धान्ये' किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकाद्प् । प्रवरा सेना, प्रवरा गौरितिवत् । एवञ्च स्रीलिङ्गोऽपि ।

३२२४ । उदि श्रयतियौतिपूद्रुवः । (३-३-४९)

उच्छायः । उद्यावः । उत्पाव । उद्दवः । कथं पतनान्ताः समुच्छ्या इति । बाहुलकात् ।

३२२५ । विभाषाडि रुप्लुवोः । (३-३-५०)

३२२६ । अवे ग्रहो वर्षप्रतिबन्धे ।

विभाषेति वर्तते । देवस्य अवग्रहः-अवग्राहः । देवकर्तृकमवर्षणमित्यर्थः । वर्षप्रतिबन्धे' किम् । अवग्रहः पदख्य ।

३२२७ । प्रे वणिजाम् । (३-३-५२)

प्रे ग्रहेर्घञ्वा वणिजां संबन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्राहेण चरति । तुलाप्रग्रहेण ।

३२२८ । रश्मौ च । (३-३-५३)


इत्युपपदे वृधातोर्घजित्यर्थ । ‘ग्रहवृदृ’ इत्यपोऽपवादः । नीवारा इति ॥ ‘उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः । निवरा कन्येति ॥ नितरा वरणीयेत्यर्थः । 'ग्रहृवृदृ' इत्यप् । ननु प्रवरा कन्यत्यत्र कथमप् स्त्रियां क्तिन प्रसङ्गात् । नह्यत्र वाऽसरूपविधिः प्रवर्तते । ‘अजब्भ्यां स्त्री खलनाः विप्रतिषेधेन' इत्युक्तरित्यत आह । क्तिन्विषयेऽपीति ॥ तत्र वृद्धप्रयोग प्रमाणयति । प्रवरा सेना, प्रवरा गौरितिवादिति । ननु ‘घञ्जबन्ताः पुसि’ इत्यबन्तस्य पुस्त्वात् स्त्रीत्व दुर्लभमित्यत आह । एवञ्चेति ॥ उक्तवृद्धप्रयोगादित्यर्थः । लोकाश्रयत्वालिङ्गस्येति भावः । उदि श्रयति ॥ उत् इत्युपपदे श्रि, यु, पू, दु, एभ्यः घमित्यर्थः । अजपारपवाद । विभाषाङि रुप्लुवोः ॥ पञ्चम्यर्थे षष्ठी । आडि उपपदे रु, प्लु, आभ्यां घमित्यर्थः । अपोऽपवादः । अवे ग्रहो वर्ष ॥ अव इत्युपपदे ग्रहधातोर्घञ् वा स्यात् वर्षप्रतिबन्धे इत्यर्थः । पक्षे 'ग्रहवृष्ट' इत्यप । देवस्येति ॥ पर्जन्यस्यत्यर्थः । कर्तरि षष्ठी । तदाह । देवकर्तृ कमिति ॥ अवग्रहः पदस्येति ॥ समस्तस्य पदद्वयस्य विच्छिद्य पाठ इत्यर्थः । प्रे वणि जाम् ॥ 'ग्रहवृष्ट' इत्यपोऽपवाद । तुलासूत्रामति ॥ व्याख्यानादिति यावत् । तुला धटा । रश्मौ च ॥ प्रे उपपदे प्रहधातोर्घञ् रश्मावपि वाच्ये इत्यर्थः । चशब्दः उक्तसमुच्चये ।