अप् । पक्षे घञ् । स्वनः-स्वानः । हस:-हासः । अनुपसर्ग इत्येव ।
३२४० । यमः समुपनिविषु च । (३-३-६३)
एष्वनुपसर्गे च यमेरब्वा । संयमः-संयामः । उपयम:-उपयामः । नियमः-नियाम: । वियम.-वियामः । यमः-यामः ।
३२४१ । ना गद्नदपठस्वनः (३-३-६४)
अव्वा स्यात् । निगदः-निगादः । निनदः-निनादः । निपठः-निपाठः । निस्वनः-निस्वान ।
३२४२ । कणो वीणायां च । (३-३-६५)
नावनुपसग च वा णावषयाच कणतरव्वा स्यान् । वाणाप्रहण प्राद्य र्थम् । निकण:-निकाणः । कण:-काण । वाणाया तु, प्रकणः-प्रकाण ।
३२४३ । नित्यं पणः परिमाणे । (३-३-६६)
अप्स्यात् । मूलकपण । शाकपणः । व्यवहारार्थ मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषय । * परिमाणे' किम् । पाणः ।
३२४४ । मदोऽनुपसर्गे । (३-३-६७ )
धनमदः । उपस्सग तु; उन्मादः ।
३२४५ ॥ प्रमदसम्मदौ हर्षे । (३-३-६८ )
हर्षे' किम् । प्रमादः । सम्मादः
अबिति शेषः । स्वन, हस, आभ्यामव्वेत्यर्थः । यमः समुप ॥ सम्, उप, नि, वि, एषा द्वन्द्वः । चकारादनुपसर्गे इति समुच्चीयते । तदाह । एष्वनुपसर्गे चेति ॥ नौ गद्नद् ॥ गदनदपठस्वन, एषा द्वन्द्व. । अब्वेति ॥ शेषपूरणमिदम् । कणो वीणायां च ॥ , , , नाविति ॥ नौ उपपदे च तदितरस्मिन्नुपसर्गे असति च वीणाविषयाचेत्यर्थः । ननु कण श्रेत्येतावता नौ उपसर्गे च कण अब्वेत्यर्थलाभात् वीणाविषयादपि कणस्सिद्धेः वीणायामिति व्यर्थमित्यत आह । वीणाग्रहणं प्राद्यर्थमिति ॥ सोपसर्गार्थमित्यर्थः । नित्यं पण । अबिति शेष । “पण व्यवहारे' इत्यस्मान्नित्यमप स्यात् परिमाणविशेषे गम्य इत्यर्थः । नित्यग्रहणाद्वाग्रह्णन्निवृत्तम् । व्यवहारार्थमिति ॥ वक्रयार्थमित्यर्थः । पण्यते विक्रयार्थ बध्यते मुष्टिमात्रमिति कर्मण्यप् । मूलकानां पण इति विग्रहः । मदोऽनुपसर्गे ॥ अनुप सर्गे उपपदे मदेरबिल्यर्थः । प्रमदसम्मदौ ॥ प्रमद, सम्मद, एतावबन्तौ निपात्येते हर्षे