पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४६
[उणादिषु
सिद्धान्तकौमुदीसहिता

५७७ । आङि श्रिहनिभ्यां हस्वश्च । इण् स्यात्स च डित् आडो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।

५७८ । अच इः । रविः । पविः । तरिः । कविः । अरिः । अलिः ।

५७९ । खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च । खनिः । कषिर्हिस्रः । अजि: । असि: । वसिर्वस्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चलिः पशुः ।

५८० । तेश्छन्दांसि । वर्तिः ।

५८१ । भुजेः किच । भुजिः ।

५८२ । कृगृशृपृकुटिभिदिछिदिभ्यश्च । इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाण: । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः|


श्रीत्यस्यानन्तर वसिवपीत्यादि पठ्यताम् । इञ् चानुवर्तिष्यते, न तु डित्त्वम् । वकाराद्यनेऋधातुपाठवैयर्थ्यापत्तेरिति दिक् । तस्मादस्य उक्तैव व्याख्या सुधीभिरादर्तव्या । दशपादीवृत्तिप्रन्थाः, ख्याधातौ माधवग्रन्थः, ‘यस्ते सखिभ्य आवरन्” इत्यादीन् मन्त्रान् व्याचक्षाणानां वेदभाष्यकृतामनेकप्रघट्टकस्थिता ग्रन्थाश्चहानुकूला इत्यवधेयम् । अश्रिः कोण । अमरोक्तिमाह । स्त्रिय इति ॥ एवञ्च 'सुप्रातसुश्व' इति सूत्रे चतुरश्रेति तालव्यपाठ एव । केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्रानालोचनमूलक इत्यवधेयम् । न चैतावता चतुरस्रमिति दन्त्यप्रयोगोऽशुद्ध इति भ्रमितव्यम् । अकारान्तेन दन्त्यगर्भेणास्रशब्देन विप्रहे तत्सौष्ठवात् । न च तादृशशब्देऽपि विप्रतिपत्तव्यम् । 'अस्त्र कोणे कचे पुसि क्लीबमसश्रुणि शोणिते' इति मेदिनीकोशात् । 'अहिर्वृत्रासुरे सर्पे' इति मेदिनी । अच इः ॥ 'कुड् शब्दे ।' 'कविर्वाल्मीकिशुक्रयो । सूरौ काव्यकरे पुंसि स्यान् खलीने तु योषिति' इति मेदिनी । खनिकष्य ॥ 'खनिः स्त्रियामाकर स्यात्' इत्यमरः । ण्यन्तात् 'अच इ.' इतीप्रत्यये खानिरपि । 'खनिरेव मता खानि.' इति द्विरूपकोशः । 'ग्रन्थिस्तु ग्रन्थिपणें ना बन्ध रुग्भेदपर्वणो.’ इति मेदिनी । वृतेश्छन्दसि ॥ बाहुलकाल्लोकेऽपि । ‘वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयो । गात्रानुलेपनीदीपदशादीपेषु योषिति ' इति मेदिनी । कृगृ ॥ यतु 'न पदान्त' इति सूत्रे न्यासकारहरदत्ताभ्यां किर्योर्गिर्योरित्यत्र 'कृग्रोरिक्व' इत्युपन्यस्तम् । तत् क्वचिदुणादिवृत्तिषु अन्वेषणीयम् । कुर्वोः गुर्वोः । ‘कृग्रोरुक्व' इति वा पाठः शोधनीयः । 'वराहः सूकरो गृष्टिः कोलः पोत्री किरिः किटि' इत्यमर । इगुपधज्ञाप्री' इति कप्रत्यये किरोऽपि । ‘स्यात्किरौ किरः प्रोक्तः पथः पथि' इति द्विरूपकोशः । 'गिरिर्ना नेत्ररुग्भिदि । अद्रौ गिरिजके योषिद्भीर्णे पूज्ये पुनस्त्रिषु' इति मेदिनी । कुटिरिति ॥ डीषि तु कुटी । ‘कुटः कीटे पुमानस्री घटे स्त्रीपुंसयोर्गुहे । कुटी स्यात्कुम्भदास्याञ्च सुरायां