पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६९३
बालमनोरमा

मन्येऽपि, कां त्वं कारिं-कारिकां क्रियां-कृत्यां-कृतिं वा अकार्षीः । सवी कारिं—कारिकां-क्रियां-कृत्यां—कृतिं—वा अकार्षम । एवं गणिं-गणिकां—गण नाम् । पार्चि-पाचिकां—पचां-पक्तिम् । इज्यां—इष्टिम् ।

३२८८ । पर्यायार्हणेत्पत्तिषु ण्वुच् । (३-३-१११)

पर्यायः परिपाटी क्रम: । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुज्वा स्यान् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुभक्षि कामहँति । ऋरणे । इक्षुभक्षिकां मे धारयसि । उत्पत्तौ । इक्षुभक्षिका उदपादि ।

३२८९ । आक्रोशे नञ्जयनिः । (३-३-११२)

विभाषेति निवृत्तम् । नञ्युपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । अप्रयाणि: । “कृत्यल्युटो बहुलम्' (सू २८४१) । भावेऽकर्तरि च


कान्त्वमिति ॥ कान्त्वङ्कारिमकार्षीरियन्वय. । इनि रूपम् । एव कारिकामित्यादावपि कान्त्वमित्यस्य कार्षीरित्यस्य चान्वयो वोच्च । कारिकामिति ॥ ण्वुलि रूपम् । क्रिया मित्यत्र 'कृङअश्श च' इति श । कृत्यामित्यत्र “कृञ्जाइश च' इति चकारात् क्यपि तुक् । कृतिमित्यत्र क्तिन् 'कृञ्जश्श च' इति चकारादित्युक्तम् । आख्याने उदाहरति । सर्वा कारिमित्यादि । अत्रापि सर्वा कारिमित्यादिपञ्चसु सर्वामित्यस्य अकार्षमित्यस्य चान्वय । एवङ्गणिमिति ॥ अत्रापि कामकार्षी । सर्वामकार्षमिति प्रश्रप्रतिवचनानि योज्यानि । गणधातोरदन्तात् चुरादिणिजन्तादिजादि । अछेोपस्य स्थानिवत्वान्न वृद्धि । गणनामिति ॥ ण्यासश्रन्थ' इति युच् । अत्र क्तिन् तु न, युचा बाधात् । पचामित्यत्र 'षिद्रिदादिभ्य इति षित्वादड् । इज्यामित्यत्र 'व्रजयजार्भवे' इति क्यप् । “वाचवस्खाप' इति सम्प्रसारणम् । इष्टिरित्यत्र यजे क्तिन् त्रश्चति ष ' । पयोयाह ॥ पयायशब्दस्य विवरणम् । परिपाटीति ॥ तस्यापि विवरणम् । क्रम इति ॥ परिपूर्वात्पटे क्रमार्थादिणजादिभ्य इति स्त्रिया भावे इण् । कृदिकारादक्तिन' इति डीष् । अर्हणमर्ह इति । भावे घजिति भाव । द्योत्येष्विति ॥ भाव एवाथ प्रत्यय इत भाव । क्रमे उदाहरति । भवत आसिकेति ॥ आदौ आसनं ततश्शयन ततोऽग्रगमनमित्यर्थ. । अहें उदाहरति । भवानिति ॥ 'ऋणे' इत्युदाहरणसूचनम् । इक्षुभक्षणमृणत्वेन धारयसीत्यर्थ । 'उत्पत्तौ' इत्युदाहरणसूचनम् । उदपादीति ॥ उत्पन्ने त्यर्थः । उत्पूर्वात्पदेः कर्तरि लुडि 'चिण् ते पद.' इति चिण । आक्रोशे नञ्जयनिः ॥ निवृत्तमिति ॥ व्याख्यानादिति भाव । अजीवनिरिति ॥ अजीवनमित्यर्थः । अप्रयाणिरिति ॥ अप्रयाणमित्यर्थः । क्तिन् तु न भवति । अनिना बाधात् । स्त्रिया वाऽसरूपविधेरभावात् । विभाषानुवृत्तौ कवित्क्तिन् स्यादिति भाव । इति स्त्र्यधिकारः ॥ कृत्यल्युटो बहुलम् ॥ कृत्यमज्ञकाः प्रत्ययाः 'तयोरेव कृत्यक्तखलर्थाः’ इति भावे कर्मणि च विहिताः । करणे अधिकरणे भावे च ल्युििहत । ततोऽन्यत्रापि कृत्यल्युटः स्युरित्यर्थः ।