पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७०१
बालमनोरमा

परेण पूर्वस्यावरेण परख्य योगे गम्ये धातोः क्त्वा स्यान् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ।

३३२० । समानकर्तृकयोः पूर्वकाले । (३-४-२१)

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । रुन्नात्वा भुक्त्वा पीत्वा व्रजति । “अनुदात्त (सू २४२८) इत्यनुनासिकलोपः । विष्णु नत्वा स्तौति । स्वरत्यादेः श्रयुक


परेण पूर्वस्येति ॥ अवरस्येत्यर्थ । परावरशब्दौ हि क्रमात् व्यवहिताव्यवहितदेशवृत्तवा विनौ । कृत्वा स्यादिति ॥ ‘अव्ययकृतो भाव' इति वचनादयमपि भावाथेक एव । अवरस्य परयोगे उदाहरति । अप्राप्य नदीम्पर्वत इति । विन्ध्यपर्वताद्दक्षिणदेशे निवसतः विन्ध्यं गङ्गाञ्च नदीमधिकृत्य प्रवृत्तमिदं वाक्यम् । विन्ध्यस्योत्तरत एव हि गङ्गा । तथा च दक्षिणदेशस्थाना गङ्गोत्तरणेन विना विन्ध्यपर्वतः प्राप्यत्वेन स्थित इत्यर्थ, विन्ध्यस्य दक्षिणता गङ्गाया अभावा दिति भाव । तथा च दक्षिणदेशस्थाना विन्ध्यव्यवहिता गङ्गा। दक्षिणदेशीयापेक्षया अव्यवहि तस्य विन्ध्यस्य दाक्षिणात्यापेक्षया व्यवहितया गङ्गया योगो गम्यते । तदाह । परनदीयोगो ऽत्र पर्वतस्येति । अथापरण परख्य योगे उदाहरति । अतिक्रम्य पर्वतं स्थिना नदीति ॥ दाक्षिणात्यानाम् अव्यवहितविन्ध्यपर्वतातिक्रमेणैव व्यवहिता गङ्गा प्राप्यत्वेन स्थिते यथ । अत्र अव्यवहितेन विन्ध्येन दाक्षिणात्यापेक्षया व्यवहितायाः गङ्गायाः योगो गम्यते । तदाह । अवरपर्वतयोगोऽत्र नद्या इति । इह अप्राप्सेरातिक्रमणख्य च विन्ध्यस्थितिपूर्व कालकत्वाभावात् ‘समानकर्तृकयोः पूर्व' इत्यस्य न प्राप्तिः । समानकर्तृकयोः ॥ समानकर्तृक योरिति निर्धारणे षष्ठी । पूर्वकाल इत्यस्य पूर्वकालक धात्वर्थे इत्यर्थ । विद्यमानादिति शेष । वक्त्वा स्यादिति ॥ अव्ययकृत्वाद्रावार्थकोऽयम् । भुक्त्वा व्रजतीति ॥ पूर्वकालिकाद्रो जनात् उत्तरकालिक व्रजनमित्यर्थः । द्वित्वमिति ॥ समानकर्तृकयोरिति द्वित्वमविवक्षितमिति भाव । स्नात्वात ॥ लानभाजन्नपानात्तरकालक ब्रजन्नामल्यथ. । अत्र ब्रजनापक्षया स्रानादीनाम्बहूनाम्पूर्वकालिकत्वऽपि खेति भाव । एतच्च भाष्ये स्पष्टम् । पूर्वम्भुङ्के ततो व्रजती त्यत्र तु पूर्वशब्देनैव पूर्वत्वस्यावगमात् “उक्तार्थानामप्रयोग' इति न्यायात् न खा । पूर्वम्भुका ततो व्रजतीत्यत्र तु न क्रिययोः पौर्वापर्य किन्तु कत्रौरव । अन्येभ्यो भोक्तृभ्य पूर्वम्भुक्का पश्चाद्भजत्यन्येभ्यो भोक्तृभ्यः इत्यर्थः । आख्यते भोक्तुमित्यत्र तु वासरूपविधिना लट् इति भाष्यादौ विस्तर । नमधातो' काप्रत्यये आह । अनुदात्तेतीति ॥ स्वरति सूति सूयति धूभ्यः काप्रत्ययस्य 'श्रयुकः किति' इति निषेधम्बाधित्वा ‘स्वरातिसूतिसूयति' इति इड़िकल्प माशङ्कय आह । स्वरत्यादेरिति ॥ 'आर्धधातुकस्येट्' इत्यादेरिड़िधिकाण्डात् प्राक् ‘नेडुशि कृति’ इत्यादेरिण्निषेधकाण्डस्यारम्भसामथ्र्यात् इह पूर्वविप्रतिषेधमाश्रित्य 'श्रयुकः किति' इति