पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७०५
बालमनोरमा

पक्षे । अक्त्वा अङ्क्त्वा । “जनसन- (सू २५०४) इत्यात्त्वम् । खात्वा खनित्वा । द्यतिस्यति (सू ३०७४) इतीत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । “दधातेर्हिः (सू ३०७६) । हेित्वा ।

३३३१ । जहातेश्च क्त्वि । (७-४-४३)

हित्वा । हाडस्तु । हात्वा । * अदो जग्धः- (सू ३०८०) । जग्ध्वा ।

३३३२। समासेऽनञ्पूर्वे क्त्वो ल्यप् । (७-१-३७)

अव्ययपूवपद्ऽनञ्समास क्त्वा ल्यबादशः स्यान् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पयुदासाश्रयणान्वह । परमकृत्वा ।

३३३३ । षत्वतुकोरसिद्धः । (६-१-८६)

षत्वे तुकि च कर्तव्ये एकादेशशास्रमसिद्धं स्यात् । कोऽसिचन्, इह षत्वं न । अधीत्य । प्रेत्य । “ह्रस्वस्य-' (सू २८५८) इति तुक् ।


इटि झलादित्वाभावात् “जान्तनशाम्' इति नलोपो नेति भावः । पक्षे इति ॥ इट्पक्षे झलादित्वात् नलोपविकल्प इति भाव । आात्वमिति ॥ 'खनु विदारणे' उदित्वाद्वेट् । इडभावपक्षे झलादित्वात् “जनसनखनाम्' इत्यात्वमित्यर्थः । दित्वेति ॥ “दो अवखण्डने । इत्यस्य रूपम् । सित्वेति ॥ “षोऽन्तकर्मणि ’ इत्यस्य रूपम् । मित्वेति ॥ माधातो रूपम् । स्थित्वेति ॥ स्थाधातोः रूपम् । धाधातो. काप्रत्यये आह । दधातेर्हिरिति ॥ ओ हा त्यागे' इत्यस्य काया हिभाव स्मारयति । जहातेश्ध क्त्वि ॥ हित्वेति ॥ त्यक्रेत्यर्थ । हाङस्त्विति ॥ ‘जहातेश्च क्रि ' इति हिभावविधौ जहातेरिति निर्देशात् ओ हा त्यागे' इत्यस्य ग्रहणम्, न तु 'ओ हाड् गतौ' इत्यस्य । तस्य “भृजामित्' इति इत्त्वे जिहातेरिति निर्देशापते. । जग्ध्वेति ॥ जग्धु का इति स्थिते “झपस्तथोधोंऽध.’ इति धः । 'झरो झरि” इति प्रकृतिधकारस्य पाक्षिको लोपः । समासे ॥ अनञ्पूर्व इति पर्यु दासात् अव्ययपूर्वपद इति लभ्यते इति मत्वा आह । अव्ययेत्यादि । तुगिति ॥ ‘हखस्य पिति' इत्यनेनेति भावः । प्रकृत्येति ॥ प्रशब्दः प्रकर्षे, तस्य “कुगति' इति कान्तेन नित्य समासः । परमकृत्वेति ॥ अव्ययपूर्वपदत्वाभावान्न ल्यबिति भावः । षत्वतुकोरसिद्धः ॥ एकः पूर्वपरयोः' इत्येकादेशप्रकरणात् उत्तरमिदं सूत्रम् । ततश्च असिद्ध इत्यस्य एकादेश इति शेष । फलितं त्वाह । एकादेशशास्त्रमिति ॥ कार्यासिद्धत्व निराकृल्य शास्रासिद्धत्व स्येव भाष्ये सिद्धान्तितत्वादिांत भाव. । काऽासचादात एड पदान्तादात ’ इतेि पूर्व रूपमिहैकादेशः । तस्य “अन्तादिवच' इति परादित्वे ओसिचदिति पदं । तस्य सकारस्य अपदा दितया 'आदेशप्रत्यययोः' इति षत्व प्राप्तम् एकादशस्यासिद्ध सात्पदाटोः' इति निषेधाभावात् “ त्वान्न भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य अकारेण व्यवधानात्

89