पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७१३
बालमनोरमा

३३५६ । शुष्कचूर्णरूक्षेषु पिषः । (३-४-३५)

एपु कर्मसु पिषेर्णमुलु । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्ण

३३५७ । समूलाकृतजीवेषु हन्कृञ्ग्रहः । (३-४-३६)

कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृहातीत्यर्थ ।

३३५८ । करणे हनः । (३-४-३७)

पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थ: सन्नित्य समासार्थोऽयं योगः । भिन्नधातुसंबंधे तु *हिसार्थानां च-' (सू ३३६९) इति वक्ष्यते ।

३३५९ । खेहने पिषः । (३-४-३८)

न्निह्यते येन तस्मिन्करणे पिषेर्णमुल् । उदपेपं पिनष्टि । उदकेन पिनष्टीत्यर्थ: ।


निरुक्तयम्परिहरति । एकस्यापीति । निमूलसमूलकषणापेक्षया यथा इन्द्रो महेन्द्र इति भाव । तेन सामान्येति । निमूलसमूलकषणात्मकङ्कषणमिति बाधः । यथा महादवा दव इत्यादावात भावः । शुप्कन्धूणरूक्षषु पिषः । कम स्विति । उपपदेष्विति शेषः । अत्र पिषधातोरनुप्रयोग ’ । समूलाकृत ॥ समूल अकृत जीव एषान्द्वन्द्व । कर्मणीयेव । समूलादिषु कर्मसूपपदेषु हन् कृञ् ग्रह्म एभ्यो णमुलि त्यर्थः । यथासङ्खयमत्रष्यते । जीवशब्दस्य भावघञ्जन्तत्वे प्राणधारण गृह्णातीत्याश्रयणे हन्तीत्यर्थ ख्यात्, न तु जीवन्तङ्कह्यातीलयर्थ स्यादित्यत आह । जीवतीति जीव इति। ननु ‘अकर्तरि कारके' इति पर्युदासात् कथङ्कर्तरि घजिल्यत आह । इगुपधेति । करणे हनः । ननु हिंसार्थना च समानकर्मकाणा इत्यनुपद वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । यथाविधीत्यादि । कषादिषु यथाविध्यनुप्रयोगसिद्यर्थस्सन् “उपपदमतिङ्’ इति नित्य समासार्थोऽयमारम्भ इत्यर्थः । अनुप्रयोगार्थो नित्यसमासार्थश्चेति यावत् । हिसार्थानाश्चेति सूत्रञ्च कषादिबहिर्भूत तस्यात्र प्रवृत्तौ तु अनुप्रयोगो न स्यात् । किञ्च ‘हिंसार्थानाञ्च' इति सूत्र 'उपदशस्तृतीयायाम्' इत्युत्तरम्पठितम् । तस्यात्र प्रवृत्तौ ‘तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वैकल्पिक उपपदसमासः स्यादिति भाव । भाष्ये तु अहिसार्थन्नित्यसमासार्थश्चेति स्थितम् । तर्हि हिंसार्थानाचेल्यस्य को विषय इत्यत आह । भिन्नेति ॥ णमुल्प्रकृतिभूतहनधात्वपेक्षया धात्वन्तरयोगे तु दण्डोपघातङ्गाः कालयति दण्डेनोपघातमित्यत्र ‘हिसार्थानाञ्च' इत्यस्य प्रवृत्तिर्व क्ष्यते इत्यर्थः । स्नेहने पिषः ॥ उदपेषमिति ॥“पेषवासवाहनधिषु च' इति उदकशब्दस्य