पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७१५
बालमनोरमा

चान्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः। अजकनाश नष्ट: । आजक इव नष्ट इत्यर्थ ।

३३६७ । कषादिषु यथाविध्यनुप्रयोगः । (३-४-४६)

स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम्

३३६८ । उपदंशस्तृतीयायाम् । (३-४-४७)

इतः प्रभृति पूर्वकाल इति संबध्यते । *तृतीयाप्रभृतीन्यन्यतरस्याम् (सू ७८४) इति वा समासः । मूलकोपदंशं भुङ्गे । मूलकेनोपदंशम्। दृश्यमा नस्य मूलकस्य भुजि प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाव्द्स्सं ब न्धस्तथाप्याथाऽस्त्यव, कमत्वात् । एतावतंव सामथ्यन प्रत्ययः समासत्र्व तृतीयायामिति वचनसामथ्यत् । ततश्चायमर्थः मूलकेन भुङ्गे इति शाब्दान्वये किकृत्वेत्याकाङ्कया उपदश्येति तदेव कर्मत्वेनान्वेति ।


कषादिषु ॥ यस्मादिति ॥ धातोरिति शेष । णमुलुक्त इति ॥ ‘निमूलसमूलयोः कष ’ इत्यारभ्य 'उपमाने कर्मणि च' इत्यन्तैस्सूत्रैरिति शेष. । तथैवोदाहृतमिति । कापङ्कषतीलयादीति शेषः । एवञ्च पृथगिह नोदाहर्तव्यमिति भाव । उपदंशस्तृतीयायाम् ॥ सम्बच्यते इति । मण्डूकलुत्येति शेषः । तृतीयान्ते उपपदे उपपूर्वाद्दशधातोर्णमुल् समानकर्तृकयो. पूर्वकाले इत्यर्थः । निल्यमुपपदसमासमाशङ्कय आह । तृतीयाप्रभृतीनीति ॥ ननु मूलकेनोपदश भुङ्गे मूलकेनोपदशमित्यत्र मूलकस्य उपदशन प्रति कर्मत्वात् कथ मूलकात् तृतीया कथं वा उपदशान् णमुल् इत्यत आह । दश्यमानस्येत्यादि ॥ प्रधानक्रियानुरोधात् परत्वाचेति भावः । ननु मूलकस्य भुजिक्रिया प्रति करणत्वे उपदशनेन असामथ्र्यात्समासानुप पत्तिरिति शङ्कतेत । यद्यपीति । उपदशिना सह मूलकस्य कर्मत्वेनान्वयश्शब्दगम्यो न भवति । तस्य भुजिक्रिया प्रति करणत्वेनान्वयस्योक्तत्वादित्याक्षेपः । समाधत्त । तथापात ॥ भुज क्रियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदशन प्रति आर्थिकः कर्मत्वान्वयोः ऽस्येव । मूलकस्योपदशन प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थं । नन्वार्थिककर्मत्वान्वयमादाय कथ तृतीया कथ वा णमुल् कथ वा समास इत्यत आह । एतावतैवेति ॥ कुत एतदित्यत आह । तृतीयायामिति वचनसामथ्र्यादिति ॥ यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् “करणे हनः’ इतिवदिति भाव. । मूलकस्य भुजिक्रिया प्रति करणत्वान्वयश्शाब्दः । उपदशे कर्मत्वान्वय आर्थिकः इत्येतदुपपादयति । ततश्चायमर्थ इति ॥ मूलकेन भुङ्के इत्यन्वयश्शाब्दः । प्रधानक्रियानुरोधात्परत्वाच्च तृतीयाविभक्ते प्रवृत्तेरिति भावः । किंकृत्वेति ॥ किट्टत्वा मूलकेन् भुङ्के इत्याकाङ्काया उपदश्येत्यन्वेतीलयर्थः