वक्तव्यम् । तृचं साम । “छन्दसि' किम् । त्र्यूचानि । ‘रयेर्मतौ बहुलम्' (वा ३४७३) । रेवान् रयिमान्पुष्टिवर्धन. ॥ ३५.११ । चायः की (६-१-३५) । चायतेर्बहुल कील्यमादेशः स्याच्छन्दसि । ‘न्य१न्यचिक्युर्न निचिक्युरन्यम्' । लिटयुसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अमेिं ज्योतिर्निचाय्य' ॥ ३५१२ । अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशी राशीर्ता (६-१-३६) । एते छन्दसि निपात्यन्ते । “इन्द्रश्च विष्णो यदपस्पृधेथाम्' । स्पर्धर्ल डयाथाम् । “अर्कमानृचु ’ । ‘वसून्याहुः' । अचेरहँश्च लिटयुमि । विच्युपे । च्युडो लिटि थासि । “यस्तित्याज' । त्यजेणैलि । “श्रातास्त इन्द्र सामा ' । “श्रिता नो ग्रहा ' । श्रीब्यू पाके निष्ठायाम् । “नाशिर दुह ' । 'मध्यत आशीर्तः’ । श्रीञ् एव किपि निष्ठाया च ॥ ३५१३ । खिदेश्छन्दसि (८-१-५२) । 'खिद दैन्ये' । अस्यैच आ स्यात् । विखाद् । ३५१४ शीर्षश्छन्दसि (६-१-६०) । शिरःशब्दस्य शीर्षन् स्यात् शीष्ण जगतः ॥ ३५१५ । वा च्छन्दसि (६-१-१०६) । दीर्घजसीचि च पूर्वसवर्णदीर्घा वा स्यात् । इचि उदाहरणम् । वाराही । वाराह्यौ । 'मानुषीरीळते पिश ’ । उत्तरसूत्रद्वये ऽपीद वाक्यभेदेन संबध्यते । तेनामिपूर्वत्व वा स्यात् । शमीं च शम्य च । 'सूम्ये सुषिरा मिव' । 'सप्रसारणाच' (सू ३३०) । इति पूर्वरूपमपि वा । इज्यमानः-यज्यमानः । ३५१६ । शेश्छन्दसि बहुलम् (६-१-७०) । लोपः स्यात् । “या त गात्राणाम् ' । “ताता पिण्डानाम् ' । 'एमन्नादिषु छन्दसि पररूप वक्तव्यम्' (वा ३६६५) । अपां त्वेमन् । अपा त्वोद्मन् ॥ ३५१७ । भय्यप्रवय्ये च च्छन्दसि (६-१-८३) । बिभेत्यस्मादिति भय्यः । वेते प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । 'छन्दसि' किम् । भेयम् । प्रवेयम् । हृदय्य आप उपसख्यानम्' (वा ६५४५) । हृदे भवा हृदय्या आपः । भवे छन्द सि यत् । ३५१८ । प्रकृत्यान्तःपादमव्यपरे । (३-१-११५) । ऋक्पादमध्यस्थ एड् प्र कृत्या स्यादति परे न तु वकारयकारपरेऽति । “उपप्रयन्ता अध्वरम् ' । “सुजाते अश्व सूनृते' । “अन्तःपादम्’ किम् । “एतास एतेऽर्चन्ति ? । “अव्यपरे' किम् । “तेऽवदन्' । तेऽयजन् । ३५१९ । अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च (६-१-११६) । एषु व्यपरे ऽप्यात एड् प्रकृत्या । “ वसुभिनों अव्यात्' । ‘मित्रमहो अवद्यात् ' । 'मा शिवासो अवक्रमुः । ते नो अत्रत ' । * शतधारो अय मणिः’ । “त ना अवन्तु ' । “कुशिकासो अवस्यव .' । यद्यपि बह्वृचैः “ते नोऽवन्तु” “रथतूः सोऽयमागात्’ “तेऽरुणेभिः’ इत्यादौ प्रकृतिभावो न क्रियते । तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥ ३५२० । यजुष्युरः (६-१-११७) । उरःशब्द एडन्तोऽति प्रकृल्या यजुषि । 'उरो अन्तरिक्षम्' । यजुषि पादाभावादनन्तःपादार्थ वचनम् ॥ ३५२१ । आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे (६-१-११८) । यजुष्यति एड् प्रकृत्या । 'आपो अस्मान्मातरः शुन्धयन्तु' । ‘जुषाणे अन्निराज्यस्य' । * वृष्णो अशुभ्याम् ' । वर्षिष्ठ अधि नाके' । “ अम्बे अम्बाले अम्बिके ? अस्मादेव वचनात् “ अम्बार्थ-' (सू २६७) इति हस्वो न ।। ३५२२ । अङ्ग इत्यादौ च (६-१-११९) । अङ्गशब्दे य एड् तदादौ चाकारे य एड्पूर्वः सोऽति प्रकृत्या यजुषि । 'प्राणी अझे अङ्गे अदीव्यत्' । ‘अङ्गे अझे अशोचिषम्’ ॥ ३५२३ । अनुदात्ते च कुधपरे (६-१-१२०) । 92
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७२९
वैदिकप्रकरणम्