पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३८
सिद्धान्तकौमुद्याम्

रुर्वा । 'भुवस्तस्य स्वतवॉ पायुरमे' ॥ ३६३४ । छन्दसि वाप्रान्नेडितयोः (८-३-४९) । विसर्गस्य सो वा स्यात्कुरवोः प्रशब्दमात्रेडित च वर्जयित्वा । “ अझे त्रातत्रैतस्कविः’ । “गिरिर्न विश्वतस्पृथु' । नेह । 'वसुन’ पूर्वयैः पति ' । “ अप्र-' इत्यादि किम् । “ अग्”ि प्र विद्वान् ’ । 'पुरुषः पुरुष ’ ॥ ३६३५ । कश्करत्करतिकृधिकृतेष्वनदितेः (८-३-५०) । विसर्गस्य सः स्यात् । 'प्रदिवो अपस्क :’ । “यथा नो वस्यसस्करत्' । 'सुपे शस्करति' । ‘उरुणस्कृधि' । साम न चारु मघवत्सु नस्कृतम् ' । “अनदितेः इति किम् । “यथा नो अदिति. करत' ॥ ३६३६ । पञ्चम्याः परावध्यर्थे (८-३-५१) । पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परत. । *दिवस्परिप्रथम जज्ञे ' । “ अध्यर्थे ? किम् । 'दिवस्पृथिव्या. पर्योज ' ॥ ३६३७ । पातौ च बहुलम् (८-३-५२) । पञ्चम्या इत्येब । “सूर्यो नो दिवस्पातु ' ॥ ३६३८ । षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (८-३-५३) । “वाचस्पतिं विश्वकर्माणम्' । 'दिवस्पुत्राय सूर्याय'। दिवस्पृष्ट भन्दमान ’ । “ तमसस्पारमस्य' । “पारिवीत इळस्पद' । * दिवस्पयो दिधिषाणा ' । रायस्पोष यजमानेषु' ॥ ३६३९ । इडाया वा (८-३-५४) पतिपुत्रादिषु परेषु । इळायास्पुत्रः इळायाः पुत्रः । इळायास्पदे-इळाया:पदे । “नसस्तपतावनासेवने' (सू २४०३) । निस सकारस्य मूर्धन्यः स्यात् । “निष्टप्त रक्षेो निष्टप्ता अरातय ' । “ अनासेवने' किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥ ३६४० । युष्मत्तत्ततक्षुष्वन्तःपादम् (८-३-१०३) । पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । * त्रिभिष्ट देव सवित .'। तेभिष्ठा आभिष्ट' । “अप्स्वन्ने सधिष्ठव' । “ अन्निष्टद्विश्वम्' । ‘द्यावापृथिवी निष्टतक्षुः । अन्तःपादम्’ किम् । 'तदन्निस्तदर्यमा' । “यन्म आत्मनो मिन्दाभूदप्तिस्तत्पुनराहार्जातवेदा विचर्षणि अत्राग्निरिति पूर्वेपादस्यान्तो न तु मध्य ३६४१ यजुष्येकेषाम् (८-३-१०४) युष्मत्तत्ततक्षुषु परतः सस्य मूधन्या वा । अर्चिभिष्टम् । अन्निष्ट अग्रम् । आर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥ ३६४२ । स्तुतस्तोमयोश्छन्दसि (८-३-१०५) । नृभिष्टुतस्य-नृभिः सुतुतस्य । गोष्टोमम्-गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ ३६४३ । पूर्वपदात् (८-३-१०६) । पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्री दिवि ष्ठ.’ । “युव हि स्थ खपेती ३६४४ । सुञ्जः (८-३-१०७) । पूर्वपदस्थान्निमित्तात्परस्य सुओ निपातस्य सस्य षः । ‘ऊध्र्व ऊ षु णः’ । “अभीषु ण.' ॥ ३६४५ । सनोतेरनः (८-३-१०८) ।‘गोषा इन्दो नृषा असि'। ‘अनः किम् । गोसनिः ॥ ३६४६ । सहे पृतनर्ताभ्या च (८-३-१०९) । पृतना षाहम् । ऋताषाहम् । चात् । ऋतीषाहम् ॥ ३६४७ । निव्यभिभ्योऽड्व्यवाये वा छन्दसि (८-३-११९) । सस्य मूर्धन्यः । न्यषीदत्-न्यसीदत् । व्यषीदत्-व्यसीदत् । अभ्यष्टौत् अभ्यस्तौत् ॥ ३६४८ (८-४-२५) । छन्दस्यूदवग्रहात् । ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥ ३६४९ । नश्च धातुस्थोरुषुभ्यः । (८-४-२७) । धातुस्थात् । अझे रक्षा ण ’ । ‘शिक्षा णो अस्मिन्” । “उरु णस्कृधि' । “ अभीषु ण ’ । “मो षु णः ॥

इति अष्टमोऽध्यायः ।
इति वैदिकप्रकरणम्।