पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४१
स्वरप्रकरणम्

(१-२-३९) । खरितात्परेषामनुदात्ताना सहितायामेकश्रुतिः स्यात् । ‘इम मे' गङ्गे यमुने सरस्वति' ॥ ३६६९ । उदात्तस्वरितपरस्य सन्नतर (१-२-४०) । उदात्तखरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् । 'सरस्वति शुर्नुट्टि' । “व्यचक्षयत्स्वं' । ‘तस्य परमात्रेडितम्' (सू ८३) ॥ ३६७० । अनुदात्त च (८-१-३) । द्विरुक्तस्य पर रूपमनुदात्त स्यान् । 'दिवेदिवे' ॥

इति साधारणस्वराः ।

३६७१ । धातो (-१-१६२) । अन्न उदात्त म्यात् । 'गोपायत न । “ आसि सृत्य' ॥ ३६७२ । स्वपादिहिमामच्यनिटि (६-१-१८८) । स्वपादीना हिसेसश्चानिट्यजादी लसार्वधातुके परे आदिरुदात्तो वा स्यान् । स्वपादिरदाद्यन्तर्गण । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्यादात्तता । “क्डिलयेवष्यते' । नह् । स्वपानि । हिनसानि । ३६७३ । अभ्यस्तानामादि. (६-१-१८९) । निट्यजादौ लसार्वधातुके परे अभ्यस्तानामा दिरुदात्त । “ये दर्दति प्रिया वसुं' परत्वाचित्स्वरमय बाधते । “दधाना इन्द्र' ॥ ३६७४ । अनुदात्ते च (६-१-१९०) । विद्यमानोदात्त लसार्वधातुके परेऽभ्यस्तानामादिरुदात्त । दधासि रत्न द्रविण च दाशुषे ' ॥ ३६७५ । भीहीधृहुमदजनधनदरिद्राजागरा प्रत्ययात्पूर्वे पिति (६-१-१९२) । भीप्रभृतीनामभ्यस्ताना पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदान स्यात् । येोऽन्निहोत्र जुहेोतिं' । 'मुमतुं नः परिज्मा' । 'माता यद्वीर दधनत्' जागर्षि त्वम्' ॥ ३६७६ । लिति (६-१-१९३) । प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥ ३६७७ । आदिणै मुल्यन्यतरस्याम् (६-१-१९४) । अभ्यस्तानामादिरुदात्तो वा णसुलि पर । लोलूय लोलूयम् । पक्षे लित्स्वर ॥ ३६७८ । अच कर्तृयकि (६-१-१९५) । उपदेशेऽजन्तानां कर्तृयकि पर आदिरुदात्तो वा । लूयते केदार. स्वयमव ॥ ३६७९ । चड्यन्यतरस्याम् (६-१२१८) । चडन्ते धातावुपोत्तममुदात्त वा । “मा हि चीकरताम्' । धात्वकार उदात्तः । पक्षान्तरे

इति धातुस्वराः ।

३६८० । कर्षात्वतो घजेोऽन्त उदात्तः (६१-१५९) । कर्षतेर्धातोराकारवतश्च घञ्ज न्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशातुदादेराद्युदात्त एव । कर्ष । पाकः । ३६८१ । उञ्छादीना च (६-१-१६०) । अन्त उदात्त. स्यात् । उञ्छादिषु युगशब्दो घञ्जन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । “वैश्वानर कुशिकेभिर्युगे युगे' । अन्यत्र येोग योगे तवस्तरम्’ । भक्षशब्दो घञ्जन्त । 'गाव सोर्मस्य प्रथुमस्यं भक्ष' । उत्तम शश्वत्तमावपि । “उदुत्तम वरुण' । 'शश्वत्तममीळते ' ॥ ३६८२ । चतुर. शसि (६-१-१६७) । चतुरोऽन्त उदात्त शसि परे । “चतुरः कल्पयन्त ’ । अचि रः-' (सू २९९) इति रादेशस्य पूर्वविधौ स्थानिवत्वान्नेह । चतस्रः पश्य' *चतेतरुरन्’ । नित्वादाद्युदात्तता ॥ ३६८३ । झल्युपोत्तमम् (६-१-१८०) । षट्त्रचतुभ्यों या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्त १. नैतद्राष्ये दृष्टम्-इति शेखरकृत् ।