पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
[हल्सान्धि
सिद्धान्तकौमुदीसहिता

ह्रस्वस्य छे परे तुगागम स्यात्सहितायाम् । चुत्वस्यासिद्धत्वाज्जश्त्वेन द । ततश्चत्र्वस्यासिद्धत्वात्पूर्व चुत्वेन ज । तस्य चर्त्वेन च । चुत्वस्या सिद्धत्वात् *चो कु ' (सू ३७८) इति कुत्व न । स्वच्छाया ।

१४७ । आङ्माङोश्च । (६-१-७४)

एग्तयोश्छे परे तुक्म्यात् । * पदान्ताद्वा' (सू १४९) इति विकल्पापवाद् । आच्छादयति । माच्छिदत् ।

१४८ । दीर्घात । (६-१-७५)

दीर्घाच्छे परे तुक्स्यात् । । दीर्घस्याय तुक्, न तु छस्य । “-सेनासु राच्छाया-' (सू ८०८) इति ज्ञापकान् । चेच्छिद्यते ।

१४९ । पदान्ताद्वा । (६-१-७६)

ह्रस्वस्य पितीत्यत् हस्वस्येति तुगिति चानुवर्तते । सहितायामित्यधिकृतम् । तदाह । ह्रस्वस्येति । तुक ककार इत् । उकार उच्चारणार्थ । क्रित्वात् हस्वम्यान्ताव यव । स्वस्य छायेति पठीसमासे सुब्लुकि वफ्रागादकारस्य तुकि स्वत् छायेति स्थिते वस्तुगत्या प्रक्रियाक्रम दर्शयति । चुत्वस्येत्यादिना चुत्वेन ज. इत्यन्तेन । ननु स्वञ्च् छायेति स्थिते तुको स्वावयवस्य पदान्तत्वात् तत्स्थानिकचकारस्य चो कुरिति कुत्व स्यादित्याशङ्कयाह । चुत्वस्येति । आङन्नाडोश्च ॥ छे तुगित्यनुवर्तते । तदाह , । एतयोरिति । आङमाडोरित्यर्थ । ननु दार्घादित्येव सिद्धे किमर्थमिदमित्यत आह । पदान्ता द्वेति विकल्पापवाद इति । आच्छादयति । माच्छिददिति ॥ तुकि पूर्ववत् प्रक्रिया । दीर्धात् ॥ छे तुगित्यनुवर्तते । तदाह । दीघर्धात् छे परे तुझ् स्यादित्यादिनाः ॥ ‘उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्’ इति छकारस्य तुक अन्तावयवस्यात् । ततश्च छिदिधातो र्यडि, द्वित्वे, हलादिशेपे, अभ्यासचर्त्वे, गुणो यड्लुकोगिति अभ्यासगुणे, तडि, चे छिद्यते इति स्थिते, छकारस्यान्त्यावयवे तुकि, तस्य चुत्वेन चकारे सति, तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारात् द्विचकारमेव रूप स्यात्, छकारो न श्रूयेतत्यत आह । दीर्घस्यायं तुगिति ॥ ततश्च छकारात् प्राक् दीर्घस्योपरि तुकि जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति । छकारस्य खर्परकत्वाभावाच्चर्त्वन्नभवतीति चकारात् छकारश्रवण निर्बाधम् । ननु दीर्घस्यायन्तुगिति कुत इत्यत आह । सेनेति । उत्तरसूत्रे पदान्तदीर्घात् छे तुग्विकत्पविधानादिद सूत्रमपदान्तविषयमभिप्रेत्य उदाहरति । चेच्छिद्यत इति ॥ पदान्ताद्वा। तुक्, छे, दीर्घात्, इत्यनुवर्तते। तदाह। दीर्धात्पदान्तादित्यादिना । अयमपि