पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०३
बालमनोरमा ।

१६८ । व्योर्लघुप्रयत्नतरः शाकटायनस्य । (८-३-१८)

पदान्तयोर्विकारयकारयोर्लघूचारणौ वयौ वा स्ताऽशि परे । यस्योञ्चारणे जिह्वाग्रोपाग्रमध्द्यमूलाना शैथिल्य जायते स लघूच्चारण ।

१६९ । ओतो गार्ग्यस्य । (८-३-२०)

ओकारात्परस्य पदान्तस्यालघुप्रयत्रस्य यकारस्य नित्य लोप स्यात् । गार्ग्यग्रहण पूजार्थम् । भो अच्युत ! लघुप्रयत्नपक्ष, भोयच्युत ।। *पदान्तस्य किम् । तोयम् ।

१७० । उञि च पदे । (८-३-२१)

अवर्णपूर्वयो पदान्तयोर्यवयोलोप उञ्जि परे । स उ एकाग्नि । पदे ।


न भवति । यकारस्य अपूर्वकत्वाभावात् । व्योर्लघु ॥ व्च यच व्यौ तयोरिति विग्रह । पदस्यत्यधिकृतम् । तच्च वकारयकाराभ्या विशेष्यते । तदन्तविधि । वान्तस्य यान्तस्य च पदस्येति लभ्यते । अलोऽन्त्यस्येत्यन्त्यस्य भवति । तथाच पदान्तयोर्यवयोरिति फलितम् । लघु प्रयत्न्नो यस्योच्चारणे स लघुप्रयत्न्न ! अतिशयित लघुप्रयत्न लघुप्रयत्न्नतर । अन्यपदा र्थस्य च वृत्तिपदार्थप्रकर्षापेक्ष प्रकर्ष । लघुतरप्रयत्रक इत्यर्थ । प्रत्यकाभिप्रायमेकवचनम् । आन्तर्यात् यस्य य वस्य च । अशीत्यनुवर्तते । शाकटायनमुनिग्रहणाद्विकल्प । तदाह । पदान्तयोरित्यादिना ॥ उच्चारणप्रयत्र लघुतरत्व विशदयति । यस्येति ॥ ततश्च भोय् अच्युतेत्यत्र यकारस्य पाक्षिको लङ्घुप्रयत्नो यकार । वकारोदाहरणन्तु “असावादित्य इति वृत्ति ' इति शब्देन्दुशेखरे । ओतो गार्ग्यस्य ॥ ओत इति पञ्चमी । व्योरित्यतो यग्रहणमनु वर्तते । नतु वकारोऽपि । ओत परस्य तस्यासम्भवात् । पदस्येत्यधिकृत यकारेण विशेष्यते । तदन्तविधि । ओकारात् परो य यकारस्तदन्तस्य पदस्येति लभ्यते । अलोऽन्त्यपरिभा षया पदान्तस्य यकारस्येति फलितम् । भो भगो इत्यत अशीत्यनुवर्तते । लोपश्शाकल्यस्ये त्यतो लोप इत्यनुवर्तते । सच पूर्वविहितलघुप्रयत्न्नस्य न भवति । विवानसामर्थ्यात् । तदाह । ओकारादित्यादिना । ननु लोपस्य कथन्नित्यत्वम् । गार्ग्यग्रहणादित्यत आह । गार्ग्य ग्रहणं पूजार्थमिति ॥ व्याख्यानादिति भाव । भो अच्युतेति ॥ अलघुप्रयन्नपक्षे यकारस्य नित्य लोप । लघुप्रयत्न्नपक्षे भोयच्युतेति । अत्र लघुप्रयत्न्नस्य विधिसामर्थ्यान्न लोप । तोयमिति । अत्र यकारस्य पदान्तत्वाभावादोतोगार्ग्यस्येति न भवति । अनेन अत्र भो भगो इति नानुवर्तत इति सूचितम् । उञि च पदे ॥ अपूर्वस्येति पदस्येति व्योरिति लोप इति चानुवर्तते । तदाह । अवर्णेति । स उ एकाग्निरिति ॥ उ इति निपात । सस् उ इति स्थिते, सस्य रु, भो भगो इत्यपूर्वत्वात् यत्वम् । लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थ मिदम् । वकारोदाहरणन्तु असा उ एकाग्निरिति वृत्ति । पदे किमिति ॥ उञ पदत्वाव्यभि