पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रीरस्तु ।

  अथ शब्दाधिकारः ॥

अजन्तपुलिङ्गप्रकरणम् ।।


१७८ । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । (१-२-४५)

धातु प्रत्यय प्रत्ययान्त च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसज्ञ स्यात् ।


अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र डयाप्रातिपदिकादित्यधिकृतम् । किन्तन् प्रातिपदिकमिति जिज्ञामायामाह । अर्थवदधातुः ॥ अर्थोऽस्यास्तीत्यर्थवत्, नपुसक लिङ्गानुसारात् शब्दस्वरूपमिति विशष्यमद्द्याहार्यम्। अधातुरिति, अप्रत्यय इति, च तद्विशेषणम्। न धातुर धातुरिति नञ् तत्पुरुष । 'परवलिङ्ग द्वन्द्वतन्पुरुपया ' इति पुस्त्वम् । अप्रत्यय इत्या वर्तते । प्रत्ययभिन्न प्रत्ययान्तभिन्नश्च विवक्षितम् । पूर्ववत्पुस्त्वम् । सञ्जाविधाविति निषेधस्तु प्रत्य यस्य यत्र सज्ञा तद्विषय इति भाव । तदाह । धातु प्रत्ययमित्यादिना ॥ अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि । अर्थवदिति किम् । वन वनमित्यादौ प्रतिवर्ण प्रातिपदिकसज्ञा माभूत् । सत्या हि प्रातिपदिकसज्ञाया प्रतिवर्ण सुबुत्पत्तिस्यात् । मख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात् । प्रथमाविभक्ते कारकानपेक्षत्वात्, तदेकवचनस्य सख्यानवगमेऽपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्डयादिना सुलोपात् प्रतिवर्ण सोरुत्पत्तावपि न क्षतिरिति वाच्यम् । एवमपि नलोपस्य दुर्वारत्वात् । अकारात् सो रुत्वविसर्गापत्तेश्चेत्यलम् । अधातुरिति किम्। हनधातोर्लडि, तिप, शप, लुक्, इतश्चेतीकारलोप, अडागम , हल्डयादिलोप । अहन्निति रूपम् । अत्र धातो प्रातिपदिकसज्ञाया सुबपवादे तिडि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसज्ञाया प्रागुत्पन्नाया अनपगमात् नलोपस्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्त पर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थ प्रातिपदिकसज्ञाया क्रियमाणाया प्रत्ययलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रातिपदिकृत्वाभावे सति नलोपस्याप्रसक्तौ ‘न डिसम्बुध्द्यो ' इतेि तन्निषेधवैयर्थ्यप्रस ङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ 'न डिसम्बुध्द्यो ' इति निषेधोऽर्थवानिति वाच्यम् । उणादीनामव्युत्पतिपक्षे कृत्तद्धितेत्य स्याप्रवृत्ते । एवञ्चास्मादेव निषेधात् प्रत्ययलक्षणमाश्रित्याप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवञ्च अहन्नित्यत्राप्यप्रत्ययान्तत्वात् प्रातिपदिकत्वप्राप्तौ तन्निवृत्यर्थ मधातुग्रहणम् । अप्रत्यय इतेि किम् । हरिषु करोषि इत्यत्र सुसिपोरर्थवत्त्वात् अप्रत्ययान्तत्वाच प्रातिपादकत्वे प्राप्त तन्निवृत्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोर्व्यपदेशिवद्भावेन