पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

१८४ । विभक्तिश्च । (१-४-१०४)

सुप्तिडौ विभक्तिसंज्ञौ स्त. । तत्र “सु’ “ औ जस् इत्यादीनां सप्तानां त्रिकाणा प्रथमादय. सप्तम्यन्ता प्राचां संज्ञा ताभिरिहापि व्यवहार

१८५ । सुपः । (१-४-१०३)

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्यु।

१८६ । व्द्येकयोर्द्विवचनैकवचने । (१-४-२२)

         द्वित्वैकत्वयोरेतौ स्त।

१८७ । बहुषु बहुवचनम् । (१-४-२१)

बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । राम


सूत्रैरिति शेष इत्सज्ञायाच्च लोप । तदुच्चारणफलन्तु तत्र तत्र वक्ष्यते । अथ *न विभक्तौ तुस्मा ' इत्याद्युपयोगिनीं विभक्तिसज्ञामाह । विभक्तिश्च ॥ सुप इति पूर्वसूत्रात् सुब्ग्रहण तिङस्त्रीणीत्यतस्तिङ्ग्रहणञ्चानुवर्तते । एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह । सुप्तिङगा विति । चकार पुरुषवचनसज्ञाभिस्समावेशार्थ। तेन एकसज्ञाधिकारस्यत्वेडपि न पर्या यत्वम् । अन्यथा 'रामेभ्य, भवाम ' इत्यादौ विभक्तिसज्ञाविरहेण न विभक्ताविति निषेधो न स्यात् । ननु 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सप्तम्यधिकरणे च' इत्यादौ कथ प्रथमादिव्यवहार सूत्रकृता पाणिनिना प्रथमादिसज्ञानामनुक्तत्वादित्यत आह । तत्रेति ॥ तेषु स्वादि प्रत्ययेषु मध्य इत्यर्थ इत्यादीनामिति ॥ आदिना अम्-औट्-शस्-इत्यादीना ग्रहणम् प्राचामिति ॥ पाणिने पूर्वेषा स्फोटायनाद्याचार्याणा शास्त्रे प्र थमाद्यास्सप्तम्यन्तास्सज्ञा स्थिता इत्यन्वय । किं तत इत्यत आह । ताभिरिति ॥ ताभि प्रथमादिसज्ञाभि इहापि पाणिनीय शास्त्रेऽपि व्यवहारस्सम्भवतीत्यर्थे । सुपः ॥ सुप् प्रत्याहार षष्ठयेकवचनम् । “तान्येकवचनद्वि वचनबहुवचनान्येकश इति सूत्र तानीतिवर्जमनुवर्तते । एकश इति । एकैकमित्यर्थ सख्यैकवचनाच्च वीप्सायाम्” इति शस्। शसैव वीप्साया अभिधानात् “नित्यवीप्सयो ' इति द्वित्वन्न तूच सख्यैकवचनाच्चेति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते । तिडस्त्रीणित्रीणीत्यत त्रीणि त्रीणीत्यनुवर्तते । तदाह । सुपस्त्रीणीत्यादिना । ह्येकयोः ॥ द्वयेकयोरिति भावप्रधानो निर्देश. । अन्यथा द्वयेकेष्विति स्यादित्यभिप्रेत्य व्याचष्टे । द्वित्वैकत्वयोरिति । बहुषु पूर्वसूत्रावैरूप्याय इहापि बहुशब्दो बहुत्वपर इत्याह । बहुत्व इति ॥ नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वात् बहुष्विति बहुवचन कथमिति शङ्कयम् । बहुत्वसङ्खयाधा रद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्ते । बहुत्वञ्च त्रित्वचतुष्टादिपरार्धसङ्खयाव्याप कीभूतधर्मविशेष । नतु त्रित्वाद्यन्यतममित्येकदेशस्य प्रथमाबहुवचनेन सर्वप्राप्तेर्विकल्पस्यादिति उक्त