पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२५
बालमनोरमा ।

२०८ । हस्वनद्यापो नुट् । (७-१-५४)

ह्रस्वान्तान्नद्यन्तादावन्ताचाङ्गात्परम्यामो नुडागम स्यात् ।

२०९ । नामि । (६-४-३)

नामि परेऽजन्तस्याङ्गस्य दीर्घ स्यात् । रामाणा “सुपि च' (सू २०२) इति दीर्घों यद्यपि परस्तथापीह न प्रवर्तते । सन्निपातपरिभाषाविरोधान् ‘नामि'


स्थिते सवर्णदीर्घे प्राप्ते । हृस्वनद्या ॥ हूस्वश्च नदीच आग्चेति समाहारद्वन्द्वाद्दिग्योगे पञ्चमी। परस्य’ इत्यद्याहार्यम्। ‘अङ्गस्य’ इत्यविकृत पञ्चम्या विपरिणम्य ट्रस्वादिभिर्विशेष्यते । अत स्तदन्तविधि । ' आमि सर्वनाम्न ' इत्यत 'आामि ’ इत्यनुवर्तते । तच्च ‘उभयनिर्देशे पञ्चमीनि र्देशो बलीयान्’ इति न्यायात् 'तस्मादित्युत्तरस्य' इति षष्ठयन्त सम्पद्यते । तदाह । ह्रस्वा न्तादित्यादिना ॥ आमत्र षष्ठीबहुवचनमेव। नतु 'टेरामित्यादिविहितम्' इति भाष्ये स्पष्टम् । नुटि टकार इत्। उकार उच्चारणार्थे । टित्वादाद्यवयव । ‘राम-नाम्' इति स्थिते । नामि ॥ ढूलोप' इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या च “अच' इत्युपस्थित तेन चाङ्ग विशेष्यते । अतस्तदन्ताविधि । तदाह । अजन्तस्येति ॥ “नुटि” इति न सूत्रितम् । 'भृजकिन्नुटच इत्यौणादिकगन्प्रत्ययान्ते भृङ्गशव्दे ऋकारस्य दीर्घापत्ते । “ अङ्गना पामनामित्यादौ तु न दीर्घ । अर्थवद्रहणपरिभाषया अर्थवत एव नामो ग्रहणात् । पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने अमि कृते त्रयाणामपि प्रत्ययाना प्रत्यकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात् । ननु “नामीति सनकारग्रहणम्मास्तु “ आमि' इत्येव सूत्रयताम् । नच 'राम आम् इत्यस्यान्द शाया दीर्घे सति ह्रस्वान्तत्वाभावात् ‘ह्रस्वनद्याप' इति नुट् न स्यादिति वाच्यम्। 'ह्रस्वान्तान्नुट्’ इति वचनसामर्थ्यात् कृतेऽपि दीर्धे भूतपूर्वगत्याश्रयणेन नुडुपपत्तेरिति चेन्न । सनकारनिर्देशस्य नोपधाया इत्युत्तरार्थत्वात् । यदि हि आमीत्येवोच्येत तर्हि ‘नोपधाया’ इत्युत्तरसूत्रेऽपि आमीत्येवा नुवर्तेत । ततश्च नान्तस्योपधाया दीर्घस्यादामीत्येव लभ्येत । एव सति चर्मणा वर्मणामित्या दावपि दीर्घस्स्यात्। अतो नामीति सनकारनिर्देश इति भाष्ये स्पष्टमित्यलम् । ‘अट्कुप्वाड्’ इति णत्व सिद्धवत्कृत्याह । रामाणामिति । नन्वत्र परत्वात् 'सुपि च' इति दीर्घ एवोपन्यसनीय न तु 'नामि' इति दीर्घ । फलविशेषाभावेऽपि न्यायानुरोधेनैव शास्त्रप्रवृत्ते “इको झल्’ इतिसूत्रे भाष्ये प्रपञ्चितत्वात् इति शङ्कते । सुपि चेति दीर्घो यद्यपि पर इति ॥ परिहरति । तथापीति । सन्निपातेति । ह्रस्वान्तसन्निपातमुपजीव्य प्रवृत्तस्य नुट ह्रस्वविघातक सुपि च' इति दीर्घ प्रति निमित्तत्वासम्भवादिति भाव । नन्विह 'नामि' इति दीर्घप्रवृत्तावपि सन्निपातपरिभाषाविरोधस्तुल्य इत्यत आह । नामीत्यनेनत्विति ॥ यद्यत्र नामीति दीर्घो न स्यात्तर्हि तदारम्भो व्यर्थस्यात् । ततश्च निरवकाशत्वाद्रामाणामित्यादौ नामीति दीर्घ स्सन्निपातपरिभाषा बाधित्वा प्रवर्तते । सुपि चेति दीर्घस्तु रामाभ्यामित्यादौ सावकाशत्वा द्रामाणामित्यादौ नामि परे सन्निपातपरिभाषान्नबाधितुमर्हति । तस्माद्रामाणामित्यादौ नामि