पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


२२२ । न बहुव्रीहौ । (१-१-२९)

बहुव्रीहौ चिकीर्षिते सर्वनामसज्ञा न स्यात् । त्वक पिता यस्य स त्व त्कपितृक । अहक पिता यस्य स. मत्कापितृक । इह समासात्प्रागेव प्रक्रिया वाक्ये सर्वनामसंज्ञा निषिद्धयते । अन्यथा लौकिकविग्रहवाक्य इव तत्राप्यकच्प्र वर्तेत । स च समासेऽपि श्रूयेत । “ अतिक्रान्तो भवकन्तम्, अतिभवकान्


तथा । साधारणे समानेऽल्पे सङ्खयायाश्च प्रयुज्यते' इति कोश । स्यादेतत् । त्वत्कपितृक मत्क पितृक इति बहुव्रीहि । त्वक पिता यस्य, अहक पिता यस्येति लौकिकविग्रहवाक्यम् । लौकि कत्व प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थे अव्ययसर्वनान्नामित्यकचि युष्मकद् स् , अम्मकद् स् इति स्थिते, 'डे प्रथमयो ' इत्यमि “त्वाहों सौ' इति त्वादेशे अहादेशे च सति 'शेष लोप इति लोपे, अतो गुणे, अमि पूर्वे च त्वकम् अहकम् इति रूपम् । युष्मद् स्, पितृ स्, अस्मद् स्, पितृ स्, इत्यलौकिक विग्रहवाक्यम्। प्रयोगानर्हत्वम् अलैौकिकत्वम् इति स्थिति । तत्र त्वत्क पितृको मत्कपितृक इति बहुव्रीहिदशाया कप्रत्ययो न सम्भवति । युष्मदस्मदोस्सर्वनामत्वेनाक च्प्रसङ्गात् । न बहुव्रीहौ ॥ सर्वादीनि सर्वनामानीत्यनुवर्तते । वहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थ प्रतीयते । एव सति सूत्रमिद् व्यर्थम् । प्रियसर्वायेत्याक्षाना बहुव्रीहिवर्तिना सर्वादीना स्वायोपसङ्कान्तार्थान्तरप्रधानकतया उपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धे । ‘सज्ञी पसर्जनीभूतास्तु न सर्वादय ’ इति वक्ष्यमाणत्वात् । अतो व्याचष्टे । बहुव्रीहौ चिकीर्षित इति ॥ बहुव्रीहाविति विषयसप्तम्याश्रयणात् अयमर्थो लम्यते । तथाच बहुव्रीहौ प्रसत्ते सति तत प्रागेव विग्रहवाक्येऽय निषेधोऽर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याभावादिति भाव । अथ लोकिक विग्रहवाक्यन्दर्शयन् लक्ष्यभूत बहुव्रीहि दर्शयति । त्वकम्पितेत्यादिना ॥ सर्वनामत्वा भावात् कप्रत्यये *प्रत्ययोत्तरपदयोश्च' इति त्वमादेशे त्वत्क मत्क इति च रूपम् । ननु बहुव्रीहिप्रवृत्ते प्राक् अलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात् त्वक पितेति कथ लौकिक विग्रहवाक्यप्रदर्शनमित्यत आह । इहेति । न बहुव्रीहाविन्यस्मिन् सूत्र इत्यर्थ । प्रक्रिया वाक्य इति । युष्मद् स्, पितृ स्, अस्मद् स्, पितृ स्, इत्यलौकिकविग्रहवाक्य एवेत्यर्थ । लौकिकविग्रहवाक्ये तु नाय निषेध । बहुव्रीहिवत्तस्य स्वार्थे परिनिष्टितत्वेन स्वतन्त्र प्रयोगार्हद्वया बहुव्रीहेस्तत्र चिकीर्षितत्वाभावात् अलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथाचैतत्तथा समासनिरूपणे वक्ष्यते । ननु लौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेध तत्राह अन्यथेति ॥ न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाभावे सतीत्यर्थे । तत्रापीति ॥ अलौकिकविग्रहवाक्येऽपीत्यर्थ । नन्वलौकिक विग्रहवाक्ये भवत्वकच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाभावादित्यत आह । सचेति ॥ अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भाव । उभयत्रापितान्नियमे दृष्टान्तद्वयमाह। अतिक्रान्तो भवकन्तम्, अतिभवकानिति