पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२१
बालमनोरमा

{{c]१९ । प्राग्रीश्वरान्निपाताः । (१-४-५६)}}

    इत्यधिकृत्य।

{{c]२० । चादयोऽसत्वे । (१-४-५७)}} {{c]अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ।}} {{c]२१ । प्रादयः । (१-४-५८)}} {{c]अद्रव्यार्थाः प्रादयस्तथा ।}} {{c]२२ । उपसर्गाः क्रियायोगे । (१-४-५९)}} {{c]२३ । गतिश्च । (१-४-६०)}}


यच्छब्दस्य धातुत्व माभूत् । धातुत्वे हि आतो धातोरित्याल्लोप स्यात् । वस्तुतस्तु लक्षणप्रति पदोक्तपरिभाषया टाबन्तयच्छब्दस्यात्र न ग्रहणप्रसक्ति । क्रियावाचिन इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्यर्थम् । धातुपाठे वा इत्यस्य पाठात् वा गतिगन्धनयो या प्रापण इत्यर्थनिर्देशस्याधुनिकत्वात् । क्रियावाचिन इत्युक्तौ तु न दोष । वार्थस्य विकल्पस्य, वा भविष्यति इति वा अभवदित्येव भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावादिति शब्दे न्दुशेखरे स्थितम् । भ्वादय किम्। वर्जनक्रियावाचिनो हिरुक् इत्यस्य वातुत्व माभूत् । प्राग्री श्वरान्निपाताः॥ प्रथमस्य चतुर्थपादे ‘तत्प्रयोजको हेतुश्च' इत्यनन्तरमिद सूत्रम्। रीश्वरशब्द । अधिरीश्वरे’ इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वात् नापशब्द । अत एव प्रत्यक्षोपजी व्यत्वादिति चिन्तामणिवाक्यस्य प्रत्यक्षेतीति प्रतीकग्रहण तद्वयाख्याने दृश्यते । इत प्रभृति अधिरीश्वर इत्येतत्पादीयोपरितनसूत्रे रीश्वरशब्दात् प्राक निपातसज्ञका प्रत्येतव्या इत्यर्थ । निपातपदमनुवर्तत इति यावत् । रेफविशिष्टग्रहण किम् । 'ईश्वरे तोसुन् कसुनौ' इति त्रितीया छायस्थस्यावधित्वम्माभूत् । यदि तु प्रथमातिक्रमणे कारणाभावात् अधिरीश्वर इत्यस्यैवावधित्व, तदा सरेफग्रहण स्पष्टार्थम् । चादयोऽसत्वे ॥ च आदि येषान्ते चादय । गणपाठसिद्धा । निपाता इत्याधिकृतम् । सत्वशब्देन द्रव्यमुच्यते *द्रव्याऽसुव्यवसायेषु सत्वम्' इत्यमर । लिङ्ग सख्याकारकान्वित द्रव्यम् । चाद्यर्थास्समुच्चयादय । यदा चादिभिर्गम्यन्ते तदा लिङ्गाद्यन्विता न भवन्ति । यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गाद्यन्विता । शब्दस्वाभाव्यात् । न सत्व असत्व अद्रव्य तत्र वाचकतया विद्यमानाश्चादय निपातसज्ञका स्युरित्यर्थ । तदाह। अद्रव्यार्था इति ॥ असत्वे किम् । छाग पशुरिति चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव । पुष्ट पशु मन्यते । इह पशु इति सम्यगर्थे । प्रादयः ॥ असत्व इत्यनुव र्तते, निपाता इति च । तदाह । अद्रव्येति । तथेति ॥ निपातसज्ञका इत्यर्थ । उपसर्गाः । गतिश्च ॥ सूत्रद्वयमिद व्याख्यासौकर्यात् सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति