पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[संज्ञा
सिद्धान्तकौमुदीसहिता

}

२६ । येन विधिस्तदन्तस्य । (१-१-७२)

विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य । समासप्रत्ययविधौ प्रति षेधः । उगिद्वर्णग्रहणवर्जम् ।

२७ । विरामोऽवसानम् । (१-४-११०)

वर्णानामभावोऽवसानसंज्ञस्स्यात् ।


सामर्थ्योपक्षयादित्यन्यत्र विस्तर । इद सूत्र भाष्ये प्रत्याख्यातम् । यत् शब्दस्य रूप उपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्यतद्वक्तुमाह । येन वि धि ॥ विधीयत इति विधि 'उपसर्गे घो कि इति दधाते भावे केिप्रत्यय । येनेति करणे तृतीया । शास्रकृत् विधाने कर्ता । धातोरित्याधिकृत्य एरजिति इकारेण विशेषणेन धातो रच्प्रत्यय विधत्ते पाणिनि । करण च व्यापारवत् । एराजित्यत्र विशेषणस्येकारस्य पाणिनिकर्तृ कविधानक्रियाया करणस्य इतरव्यावर्तनमेव व्यापार । ततश्च विशेषणमेवात्र येनेति तृतीया न्तेनोच्यते । स्व रूपामेत्यत स्वमित्यनुवर्तते । षष्ठयन्ततया च विपरिणम्यते । एव च विशे षणसमर्पकश्शब्द तदन्तस्य स्वस्य च प्रत्यायक इति फलति । तदाह । विशेषण तदन्तस्य संज्ञा स्यात् स्वस्य चेति । विशेषणसमर्पकश्शब्दस्तदन्तस्य शब्दस्य विशेषणसमर्प कशब्दस्य च बोधकस्यादिति यावत् । ततश्च एराजित्यत्र इकारान्ताद्धातोरच् प्रत्ययस्यात् इकाररूपाद्धातोश्चेति फलति । यथा । चय, अय । केचित्तु फरण कर्तृपरतन्त्रमिति तृतीयया पारतन्त्रय लक्ष्यते, तच्च शब्दाना विशेषणत्वेनेति विशेषणपरत्व यच्छब्दस्य लभ्यत इत्याहु । ततु शब्देन्दुशेखरे दूषितम् । समासेति । वार्तिकमेतत् । समासविधौ प्रत्ययविधौ च तदन्तविधे प्रतिषेधो वाच्य इत्यर्थ । तेन कृष्ण परमश्रित इत्यत्र द्वितीयाश्रितेति समासो न भवति । सूत्रनडस्य गोत्रापत्य सौत्रनाडि अत इञ्, अनुशतिकादीना चेत्युभयपदवृद्धि । अत्रनडादिभ्य फक्, इति न भवति । नन्वेव सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र उगित श्चेति उगिदन्तात्प्रातिपदिकात् विहितो डीप् न स्यात् । प्रत्यविधौ तदन्तविधे प्रतिषेधात् । तथा दाक्षिरित्यत्र अत इञ् इति इञ् न स्यात् । अस्यापत्य इरित्यत्रैव इञ् स्यादित्यत आह । उगिदिति ॥ इदमपि वार्तिकम् । द्वितीयाया चेति वर्जयतेर्णमुल् । उगिद्वहण वर्णग्रहण च वर्जयित्वा समासप्रत्ययविधावित्युक्त प्रतिषेधो भवति । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्त विधिरस्येव ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तात् उगितश्चेति डीप् । दाक्षिरित्यत्र अवर्णान्तादिश्च सिध्द्यति । विरामोऽवसानम् ॥ विरम्यते अस्मिन्निति विराम सामीपिकेऽधि करणे घञ् । विरमण क्रियाया अभाव , स च शब्दशास्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तथाच यस्मिन् वर्णे उच्चारिते सति अव्यवहितोत्तरकाले वर्णान्तराणामुच्चारणाभाव स अन्त्यवर्ण अवसानसज्ञक इत्यर्थ. फलति । तदभिप्रेत्य व्याचष्टे । वर्णानामित्यादिना ॥ यस्मि न्नुचरिते सति वर्णान्तराणा उचारणाभाव स . अन्त्यवर्ण अवसानसज्ञक. इत्यध्याहारेण विवरण