पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


पाणिनीया:’ (प ५७) । निमित्तं विनाशोन्मुखं दृष्टा तत्प्रयुक्तं कार्य न

कुर्वन्तीत्यर्थ ।

। इति परिभाषाप्रकरणम् ।


'अथाच्यसान्धिप्रकरणम् ।

४७ । इको यणचि । (६-१-७७

इकः स्थाने यण्स्यादचि संहितायां विपये । ' सुधी उपास्य.' इति स्थिते ।


न्ते अकृतव्यूहा पाणिनिशिष्या इत्यक्षरार्थ । तर्हि सर्वस्य शास्त्रस्य वैयर्थ्यमित्यतोऽध्द्याहृत्य व्याचष्टे । निमित्तमित्यादिना ॥ सेदुष इत्याद्युदाहरणम् । तच्च शब्दाविकारे सेदिवस् शब्द निरूपणावसरे मूल एव स्पष्टीभविष्यति । इय परिभाषा निर्मूला निष्फलाचेति परिभाषेन्दुशेखरे स्पष्टम् । इकोयणाचि ॥ इक इति षष्ठी। अतष्षष्ठी स्थानेयोगेति परिभाषया स्थान इति लभ्यते । स्थान प्रसङ्ग इत्युक्तम् । वर्णना वर्णान्तराधिकरणत्वासम्भवात् अचीति सतिसप्तमी । तस्मिन्निति निर्दिष्टे पूर्वस्येति परिभाषया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवञ्च अचि परत इत्यर्थलभ्यम् । सहितायामित्यधिकृतम् । ततश्चार्द्धमात्राधिककालव्यवधानाभावो लभ्यते । एवञ्च फलितमाह । इकः स्थान इत्यादिना ॥ इदञ्च सूत्राक्षरानुसारिप्राचीनमतानुसारेण । सहितायामिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरण अचीति सप्तमी तस्मिन्नित्यनेना श्रित्य सहिताधिकार प्रत्याख्यात । इत्थ हि तत्रभाष्यम्। अय योगश्शक्य अवक्तु। कथम्? अधि करणन्नाम त्रिप्रकार, व्यापकमौपश्लेषिक वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योभिसम्बन्धो भवितुमर्हति अन्यदत उपश्लेषात् । इकोयणचि अच्युपश्लिष्टस्येति । तत्रान्तरेण सहिताग्रहण सहितायामेव भविष्यतीति । उप समीपे श्लेष सम्बन्ध उपश्लेष । तत्कृतमधिकरणमौपश्ले षिक सामीपिकमिति यावत् । एवञ्च अच्समीपवर्तिन इक इति फलति । सामीप्यञ्च कालतो वर्णतश्च व्यवधानाभाव । एवञ्च असहितायामुक्तसामीप्याभावादेव यणभावसिद्धे सहिताधिकारो न कर्तव्य इति भाष्यार्थ । एवञ्च तुल्यन्यायत्वात् तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधि करणे सप्तमी । ततश्च अचील्यादि सप्तम्यन्तार्थे अकारादावुच्चारिते सामीप्यसबन्धेन विद्यमानस्य पूर्वस्य कार्य स्यादित्यर्थ फलति, नत्वव्यवहितोच्चारिते इति, अव्यवहितत्वविशेषणमुच्चारिते देयम् । सामपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधाना भावात्मकत्वात् । एवञ्च तत्र नैरन्तर्यार्थ निग्रहणन्न कर्तव्यम् । इदश्च स्नुक्रमोरिति सूत्रे, तत्र च दीयते, इति सूत्रे च कैयटे च स्पष्टम्। अधिकरणत्रैविध्द्यन्तु कारकाधिकारे आधारोऽधिकरणमि त्यत्र स्पष्टीकरिष्यते । सुधी इति । ध्ये, चिन्तायामिति धातेो ध्यायतेस्सप्रसारणश्चेति क्विपि यकारस्य सप्रसारणे इकारे पूर्वरूपे हलवेति दीर्धे च धीशब्द । सुष्ठु ध्यायन्तीति सुधिय । सु शोभना धीर्येषामिति वा सुधिय । सुधीभिरुपास्य इति विग्रह. । ‘कर्तृकरणे कृता बहुळम्’ इति समास । ‘सुपोधातुप्रातिपदिकयो ’ इति भिसो लुक् । सुधी उपास्य इति स्थिते ईकारस्य यकार