पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्था निवद्भावेनाच्त्वमाश्रित्य * अनचि' (सू ४८) इति द्वित्वनिषेधो न शङ्कय अनल्विधौ' इति तन्निषेधात् ।


स्थानिवदादेश इत्यारब्धम् । स्थान प्रसङ्ग इत्युक्तम् । यस्य स्थाने अन्यद्विधीयते तत् स्थानि । येन विधीयमानेन अन्यत् प्रसक्तन्निवर्तते स आदेश । स्थानिना तुल्य स्यानिवत् । तेन तुल्यमिति वतिप्रत्यय । आदेश स्थानिना तुल्यो भवति । स्थानिधर्मको भवतीति यावत् । अलिति वर्णपर्याय । विधीयत इति विधि कार्य । अलाश्रयो विधि अल्विवि । न अल्विवि अनल्विधि । अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थे । अलाश्रयकायें कर्तव्ये स्थानिवन्नभवतीति फलितम् । अलाश्रयेति सामान्यवचनात् अला विधि, अल परस्य विधि, अलो विधि, अलेि विधिश्चेति, सर्वसङ्गह । अला विधौ यथा । व्यढोरस्केन। अत्र विसर्जनीयस्य स , इति विसर्गस्थानिकस्य सकारस्य विसर्गवत्वमाश्रित्य अङ्कयवाय इति णत्व प्राप्तन्नभवति । अल परस्य विधौ यथा । ध्यौ । दिवऔदिति वकारस्थानिकस्य औकारस्य स्नानिवद्भावेन हल्त्वात् तत परस्य सोहल्डयादिलोप प्राप्तो न भवति । अलो विधौ यथा । ध्युकाम । दिव उदिति वकारस्थानिकस्य उकारस्य स्थानिवद्रावेन वकारत्वात् “लोपो व्योर्व लि' इति लोप प्राप्तो न भवति । अलि विधौ यथा 1.क. इष्ट..] यजे क्त । अत्र यकारस्थानि कसम्प्रसारणस्य इकारस्य स्थानिवद्रावेन हश्त्वात् 'हशिच' इत्युत्व प्राप्त न भवति । अल्चेह स्था निभूत, स्थान्यवयवश्च, गृह्यते । ततश्च आदेशस्य स्थानिभूतो योऽल् स्थान्यवयवश्च योऽल् तदाश्रयविधौ न स्थानिवदिति फलति । तत्र स्थानीभूताल्विधौ व्यूढोरस्केनेत्युदाहृतमेव । यथा वा । धिवि, प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे “धिन्विकृण्व्योरच'इति विक रणस्य उकारस्य याणि वकारे सति तस्य स्थानिवद्रावेनार्धधातुकत्वात् स्वतो बलादित्वाच्च इडागम प्राप्तो न भवति । बकारस्य स्थानिभूतो योऽलू उकार तदादेश वकार आर्ध धातुकत्वेनाश्रित्य प्रवर्तमानस्य इट स्थान्यलाश्रयत्वात् । स्थान्यवयवालाश्रयविधौ यया । प्रतिदीव्य । इह क्तादेशस्य य इत्यस्य वलाद्यार्धधातुकत्वात् इडागम प्राप्तो न भवति । इडागमस्यवलाद्यार्धधातुकविषये स्थान्यवयवभूतवलाश्रयत्वात् । तदेतदाह । आदेशः स्थानिव त्स्यान्नतु स्थान्यलाश्रयविधाविति ॥ स्थान्यलाश्रयेत्यत्र स्थानीति केि। रामाय। इह 'सुपि च इतिदीर्घस्य यञ्जादिसुबाश्रयस्य आदेशगतयकाररूपाश्रयत्वेपि तस्मिन् कर्तव्ये यादेशस्य स्था निवद्भावेन सुप्त्व भवत्येव । दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाभावात् । न च नीञ्धातोर्ण्वुलि अकादेशे वृद्धौ नै अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मक त्वादायादेशो न स्यात् । ईकारस्य आयादेशाभावादिति वाच्यम् । इह हि स्थानिप्रयुक्त यत् कार्य शास्त्रीय तदेवातिदिश्यते । ईकारस्य चैकाराभावो नशास्त्रविहित इति न तस्य ईकारस्था निके ऐकारे अतिदेश इत्यास्तान्तावत् । अनेनेति। उदाहृतेन स्थानिवत्सूत्रेण इह सुधू य इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधेो न शङ्कनीय इत्यर्थः । कुत इत्यत आह । अनल्बिधाविति