पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७
बालमनोरमा



५० । अचः परस्मिन्पूर्वविधौ । (१-१-५७) अल्विद्धयर्थमिदम् । परनिमित्तोऽजादेश स्थानिवत्स्यात् स्थानिभूतादच पूर्वत्वेन दृृष्टस्य विधौ कर्तव्ये । इति यण स्थानिवद्भावे प्राप्त ।


तन्निषेधादिति ॥ स्थानिवत्वनिषेधादित्यर्थ । यकारादेशस्थानीभूतो योऽल् ईकार तद्भतमच्त्व यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भाव । ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भाव । तदुत्तरसूत्रेण तु स्थानिवत्व स्यादेवेति शङ्कामुद्रावयिष्यन् तथाविधमुत्तरसूत्रमाह । अचःपरस्मिन् ॥ स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिद सूत्रमित्यत आह । अल्विद्धयर्थमिति ॥ अलाश्रयविवावपि स्थानिवद्भा वार्थमित्यर्थ । तेन वव्रश्चेति सिध्द्यति । ओ व्रश्चू, च्छेदने । लिटि तिपि णलि द्वित्वम् । लिट्य भ्यासस्येत्यभ्यासेरेफस्य सम्प्रसारणम् ऋकार । पूर्वरूपम्। उरदत्वम्। रपरत्वम्। हलादिश्शेष । तत्राभ्यासे वकारस्य पुनस्सम्प्रसारणन्न । ऋकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसा रणतया ‘न सम्प्रसारणे सम्प्रसारणम्’ इति निषेधात्। पूर्वसूत्रेण त्वत्रस्थानिवद्भावो न सम्भवति । सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भाव । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति अच आदेश इति । परस्मिन्निति सतिसप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह । परनिमित्तोऽजादेशः स्थानिवत्स्यादिति ॥ विधीयत इति विधि कार्यम् । पूर्वस्य विधि पूर्वविधि पूर्वत्वञ्च यद्यपि सावधिकम् । त्रयश्चात्र सन्निहितम् । स्थानी आदेश परनिमित्तश्चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति । तस्या देशेनापहारात् । नाप्यादेश । नापि परनिमित्तम् । वैयाकरण इत्यत्र इकारस्थानिकयणादेशात् तत्परनिमित्तादाकाराच पूर्वस्य नय्वाभ्यामित्यैकारस्य आयादेशे कर्तव्ये यणादेशस्य स्थानिवद्भा वेनाच्त्वापत्ते । तथापि स्थान्यवेक्षयैवात्र पूर्वत्व विवक्षितम्। स्थानिन आदेशनापहृतत्वेऽपि भूतपू र्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह । स्थानिभूतादच. पूर्वत्वेन दृष्टस्य विधौ कर्तव्य इति ॥ तत्र स्थानिनि सति यद्रवति तदादेशेऽपि भवति यन्नभवति तदादेशेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याभावस्य अतिदेशो भवति । तत्राद्ये वव्रश्चेत्युदाहृतमेव । तत्र न सम्प्रसारणे सम्प्रसारणमिति निषेधकार्यस्य शास्त्रीयत्वात् । द्वितीये तु गणयती त्युदाहरणम् । गण, सङ्खयान इति चुरादौ अदन्तधातु । तस्माण्णिच् । अतो लोप । तिप् शप् णेर्गुण अयादेश गणयतीति रूपम् । अत्र णिचि परत उपधाभूतस्य गकारादकारस्य “ अत उपधाया' इति न भवति । प्रकृतसूत्रेणाल्लोपस्य स्थानिवद्भावात् अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्नप्रवृत्तिमर्हति । वृध्द्यभावस्या शास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्नपूर्वत्वम्। णकारेण व्य वधानादिति वाच्यम् । पूर्वत्व ह्यत्र व्यवहिताव्यवहितसाधारणम् । उत्तरसूत्रे स्वरे निषेधाल्लि ङ्गात् । तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् । इति यण इति । अनेन सूत्रेण सुध् य् इत्यत्र