पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


न पदान्त'द्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु' (१-१-५८) पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न


धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिवद्भावे प्राप्त तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थ । नपदान्तद्विर्वचन ॥ स्थानिवदादेश इति अच परस्मिन्निति चानुवर्तते परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वय । पदान्तश्च द्विर्वचनञ्च वरे च यलोपश्च स्वरश्च सव र्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्व । तेषा विधय विधानानि । कर्मणि षष्ठया समास ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशस्स विवक्षित । आर्षो द्वन्द्व सप्तम्या अलुक्च । विधिशब्द प्रत्येकमन्वेति । पदान्तविधौ द्विर्वचनविधावित्यादि । पदस्यान्त चरमावयव । पदान्तस्य विवाने पदान्तकर्मके विधानेन पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत् । तदाह । पदस्य चरमेत्यादिना पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् । तथा सति एषो यन् हससीत्यसिद्धे । तथाहि । एष यन् इति छेद । इण्धातो र्लटश्शतरि शपि लुकि इकारस्य इणो यणिति यण् । अत्र एतत्तदोरिति सुलोपो न भवति । तस्य हलि परतो विधानात् । इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेना चत्वात् । नच न पदान्तेति निषेधश्शङ्क्य । यो विधीयमान पदस्य चरमावयव सपद्यते तत्रैव तन्निषेधात् । इह च विधेयस्य सुलोपस्य पदानवयवत्वात् । पदान्तस्य स्थाने विधाविति व्या ख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्द्येत् । सुलोपस्य पदान्तसकारस्य स्थाने विधानात् अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति कारस्य विधीयमानस्य पदचरमा वयवत्वात् । एवञ्च पदान्तविधावित्यस्य एषो यन् इत्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरण भाष्ये स्पष्टम् । भाष्यप्रदीपोद्योते स्पष्टतरमेतत् । पदान्तविधौ कानि सन्तीत्या द्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विर्वचने सुट. य इत्युदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावस्यादेवेति वाच्यम् । अनचिचेति द्वित्व स्यानैमित्तिकतया तद्विषये यकारस्य स्थानिवद्भावस्यानपेक्षत्वेन तत्र तन्निषेधस्य वैयर्थ्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिपेधस्यैव विवक्षितत्वादिति भाव । वरे यथा । यायावर यश्च यड' इति या वातोर्यडन्ताद्वरच् । सन्यडोरिति द्वित्वम्।यायाय वर इति स्थिते अतो लोप इति यडोऽकारस्य लोप । लोपोव्योरिति यकारलोप । अत्र अजाद्यार्द्धधातुकमाश्रित्य ‘आतो लोप इटेि च' इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यथा । याति । याधातोर्यडि द्वित्व क्तिच् यायायति इति स्थिते, अतो लोप, लोपोव्योरिति यलोप अल्लोपस्य स्थानिवत्वादातो लोप लोपोव्योरिति यलोप यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधस्या दिति वाच्यम् । स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात् । इह