पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९
बालमनोरमा

च वकारस्य लोपरूपत्वाभावात् । स्वरविवौ यथा । चिकीर्षक । चिक्रीर्ष इति सन्नन्तात् ण्वुल् । अकादेश । सनोऽकारस्य अतो लोप । अत्र ईकारस्य लितीत्युदात्तत्वे कर्तव्ये अलोपो न स्था निवत् । यद्यपि ईकार अल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति । तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्व व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनन्तु पूर्वसूत्र एवोक्तम् । सवर्णविवौ यथा । शिण्डढि । शिष् इति धातो रौवादिकाल्लोण्मभ्यमपुरुषै कवचनम् । सिप् श्रम् । शिनष् सि । हित्व । धित्व । ष्टत्व। षस्य जश्त्व । डकार शिन ड्ढेि श्रवसोरल्लोप नश्च पदान्तस्येत्यनुस्वार अनुस्वारस्य ययीति तस्य परसवर्ण णकार शिण्ड्डि इति रूपम्। अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्रमकारस्य लोपोऽत्र अजादेश । तत्स्थानीभूत श्रमकार एव । तस्मिन् सति नकारस्यानुस्वार प्रसक्तिरेव नास्ति । तथाचानुस्वाररय स्थानीभूतादच पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अच परस्मिन्नित्योपस्य स्यानिवत्व न प्रसक्तमिति किन्तत्प्रतिषेवेन । यत्तु तत्वबोधि न्या अनुस्वारस्य स्थानिभूतो नकार श्रमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्व स्थानिद्वाराऽपि पूर्वत्वाभ्युपगमादित्युक्तम् । एव सति तितउमाचष्टे तितापय तीव्यत्र पुगागमो न स्यात् । ‘तत्करोति तदाचष्ट’ इति णिच् । इष्टवद्भावादुकारस्य टेरिति लोप । अचोञ्णितीति तकारादकारस्य वृद्धि आकार पुगागम तितापीत्यस्मात् लट् तिप् शप् गुण अयादेश तितापयतीति रूपम् । अत्र अचोञ्णितीति वृद्वद्या लव्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधानेन णिपरकत्वाभावात् पुगागमो न स्यात् । आकारस्य लोपस्यानिभूतादुकारात् पूर्वत्वस्य खत अभावेऽपि स्थानिद्वारा सत्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्रे पादमाचष्टे पादयति तत क्विप् पात् हसतीत्यादौ ‘झयोह' इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमास तत्प्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणमिति प्रपञ्चितम् । अनुस्वारविधौ यथा शिंषन्ति । शिष्, धातोर्लटि झेि झोऽन्त । श्रसोरल्लोप । नश्वापदान्तखेत्यनुखार । शिंषन्ति । इह तु न परसवर्ण । षकारस्य यय्त्वाभावात् । अत्र अनुखारे कर्तव्ये अल्लोपो न स्थानिवत् । अत्र दीर्घविधौ यथा । प्रतिदीव्ना । हलिचेति दकारादिकारस्य दीर्धे कर्तव्ये अल्लोपो न स्थानिवत् । जाश्विधौ यथा । सग्धिश्चमे । अद् भक्षणे क्तिन् । बहुळ छन्दसीति घसल् आदेश ।*घसिभसोर्हलि च' इत्युपधालोप । झलोझलीति सलोप । झषस्तथोरिति तकारस्य धत्वम्।'झलाञ्जश् झशि' इति जश्त्वेन घकारस्य गकार । समाना ग्धि अदन सन्ति । समानस्य छन्दसीति सभाव । अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । चर्विधौ. यथा । जक्षतु । घसेर्लिटि अतुस् । द्वित्वम् “हलादिश्शेष ' । “ अभ्यासे चर्च' इति जश्त्वम् । ‘कुहोश्चु ' इति जकार । 'गमहन' इत्युपधालोप । *खरि च' इति चर्त्वम् । ककार । ‘शासिवसि इति' ष । अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत् । भाष्ये तु पूर्वत्रासिद्धे नस्थानिवदित्यवष्टभ्य द्विर्वचन सवर्णानुस्वारदीर्घजश्चर प्रत्याख्याता । किञ्च 'दीघाँदाचार्याणाम्' इत्युत्तर ‘अनुस्वारस्य ययि परसवर्ण’ ‘वापदान्तस्य’ “तोलिं' 'उदस्थास्तम्भ्वो पूर्वस्य’ ‘झयो होऽन्यतरस्या’ ‘शश्छोटि