पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


स्थानिवत् । इति स्थानिवद्भावनिषेध ।

५२ । झलां जश झशि । (८-४-५३)

स्पष्टम् । इति धकारस्य दकार. ।

। अदर्शनं लोपः । (१-१-६०)

प्रसक्तस्यादर्शनं लापसंज्ञ स्यात् ।

५४ । संयोगान्तस्य लोपः । (८-२-२३)

संयोगान्तं यत्पदं तदन्तस्य लोप. स्यात् । इति यलोपे प्राप्त । “यण प्रतिषेधो वाच्य ' (वा ४८०६) । “यणो मयो द्वे वाच्ये' (वा ५०१८)।


इति षट्सूत्रीपाठोत्तर 'झलाञ्जश् झशि’ “अभ्यासेचर्च ' 'खरिच'वावसाने' 'अणोऽप्रगृह्य स्यानुनासिक’ इति पञ्चसूत्रीपाठ इति 'हलोयमाम्यमि' इति सूत्रस्थभाष्यसम्मत सूत्रक्रम । एवञ्च शिण्ड्ढीत्यत्र न परसवर्णप्रसक्ति । परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यटपरकत्वाभावादिति । तथापि सवर्णविधौ शिण्ड्ढीति नोदाहरणमित्यास्तान्तावत् । इति स्थानीति । अनेन सूत्रेण सुध् य् इत्यत्र द्वित्वनिषेधे कर्तव्ये चकारस्य स्थानिवत्त्वनिषेध इत्यर्थ । एपञ्चाच्परकत्वाभावेन अनाचि चेति निषेधाभावात् धकारस्य द्वित्वन्निर्बाधमिति भाव । तथाच सुध ध् य इति स्थितम्।झलाञ्जश झशि । स्पष्टमिति ॥ झला स्थाने जश् स्यात् झशि परत इति स्पष्टार्थकम्। तत्र न किञ्चिद्व्याख्यातव्यमस्ति । पदान्तरस्यानुवृत्यभावादित्यर्थ । इति धकारस्येति ॥ प्रथमधकारस्येत्यर्थ । दकार इति ॥ स्थानत आन्तर्यादिति भाव । सुद् ध् य् इत्यत्र यकारस्य सयोगान्तलोप शङ्कितु लोपसज्ञासूत्रमाह । अदर्शनं लोपः।। शब्दानुशासनप्रस्तावाच्छब्दविषयक श्रवणमिह दर्शन विवक्षितम् । दर्शनस्याभाव अर्थाभावेऽव्ययीभाव । स्थानेऽन्तरतम इत्यत स्थान इत्यनुवर्तते । स्थान प्रसङ्ग इत्युक्तम् । शास्रतश्शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदा श्रवणन्तत् लोपसज्ञ भवतीत्यर्थ । तदाह । प्रसक्तस्येति ॥ तत्र श्रवणाभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्यकिम् । दधि इत्यादौ क्विप अश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्रस्वस्य पिति कृति तुक् माभूत् । संयोगान्तस्य लोपः ॥ पदस्येत्यधिकृतम् । सयोग अन्तो यस्येति विग्रह । संयोगान्तस्य पदस्य लोप इत्यन्वय । नच कृत्स्रपदस्य लोप । किन्तु अलोन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह । संयोगान्तमित्यादिना ॥ अत्र अन्तग्रहण स्पष्टार्थमेव । सयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु सयोगावन्तौ यस्येति वि ग्रहलाभार्थमन्तग्रहण । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वतकारस्य लोप स्यादिति । तन्न । सयोगसज्ञाया व्यासज्यवृत्तित्वात् प्रत्येकवृत्तित्वमभ्युपगम्य अन्तग्रहणप्रयोजनवर्णनस्य व्य र्थत्वादिति शब्दरत्ने विस्तर इति । यलोपे इति ॥ सुध् य् इति यकारस्य अनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेधः आरभ्यते । यणः प्रतिषेधो वाच्यः ॥ यण सयोगान्तलोपप्रतिषेधो ॥