पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४१
बालमनोरमा


'मय इति पञ्चमी यण इति षष्ठी' इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्बित्वविकल्पाच्चत्वारि रूपाणि । एकधमेकयम् । द्विध द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्धयुपास्य. । मद्ध्वरि. । धात्रंश । लाकृति ।


वक्तव्य इत्यर्थ । अनेन वार्तिकेन यकारस्य सयोगान्तलोपो न भवतीति शेष । इद वार्ति क आकरे प्रत्याख्यातम् । अथात्र यकारस्य अच परत्वाभावादच्परकत्वाच्च अनचिचेति द्वित्वा प्राप्तौ द्वित्वविविमाह । यणो मयो द्वे वाच्ये ॥ अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वय । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यण परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यण पर, नापि मय्। अत कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह । मय इतीति ॥ पक्षे इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचितम् । विनिगमनाविरहादिति भाव । अत्रापि वार्तिके यरोऽनुनासिक इत्यतो वाग्रहणमनुवर्तते । ततश्च फलितमाह । तदि हेति ॥ तदित्यव्ययम् । इयता सन्दर्भण यत् प्रपश्चित तेन इह सुध् य् इत्यत्र यकारधकारयो द्वित्वविकल्पाचत्वारि रूपाणि सम्पद्यन्ते इत्यर्थ । एकधमेकयमिति ॥ एक धकार यस्य तत् एकवम्, एव एकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाभावे एकवधकारमेकयकारश्च प्रथम रूपमित्यर्थ । द्विधै द्वियमिति । द्वौ धकारौ यस्य द्विधम् । एव द्वियमित्यपि । धकारयका रयोरुभयोरपि द्वित्वे द्वियकार द्विधकारञ्च द्वितीय रूपमित्यर्थ । द्विधमेकयमिति ॥ धकारस्य द्वित्वे यकारस्य द्वित्वाभावे द्विधमेकयञ्च तृतीय रूपमित्यर्थ । एकधं द्वियमिति ॥ धकारस्य द्वित्वाभावे च यकारस्य द्वित्वे एकध द्वियञ्च चतुर्थ रूपामित्यर्थः । सुद्धयुपास्य इति । इह ‘न भूसुधियो 'इति निषेधस्तु न भवति । तस्य अजादौ सुपि विधानात् । इकोऽसवर्ण इत्यपि न । ‘न समास' इति तन्निषेधात् । मद्ध्वरिरिति ॥ मधुर्नाम असुरविशेष । तस्यारिश्शत्रु मद्भरि । हरिरित्यर्थ । अत्र धकारादुकारस्य स्थानत आन्तर्यात् यथासङ्खयपरिभाषया वा वकार । न चात्र वकारस्य दन्तस्थानाधिक्यात् न स्थानसाम्यमिति वाच्यम् । यावत् स्थानसाम्यस्य साव र्ण्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादे एकाराद्यनापते । धात्त्रश इतेि । अत्र तकारस्यैव द्वित्वम् । न तु रेफस्येत्यनुपदमेव वक्ष्यते अचोरहाभ्यामित्यत्र । लाकृतिरिति ॥ लृवर्णस्य आकृतिरिव आकृ तिर्यस्येति विग्रह । अत्र आकारे परे लृवर्णस्य दन्तस्थानसाम्यात् लकार । न च दन्तस्था नसाम्यात् प्रथमातिक्रमे कारणाभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्किञ्चित्स्थानसाम्य स्य प्रयोजकताया मदध्वरिरित्यत्रोक्तत्वादिति वाच्यम् । अत्र हि चत्वारो यणो यवरला विवेया. । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यात् निस्सपन्नस्सावकाश । तत्र लकारस्य दन्तरूपस्थान भेदादप्राप्त । लाकृतिरित्यत्र लृवर्णें तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रति षेधमाश्रित्य लकारविधि परत्वात् अपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे कारणाभावादत्रापि वकार एव स्यात् तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र लृवर्णस्य