पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता

५५ । नादिन्याक्रोशे पुत्रस्य । (८-४-४८)

पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे आक्रोशे' किम्। तत्वकथनेद्विवचनं भवत्येव । पुत्त्रादिनी सर्पिणी 'तत्परे च' (वा ५०२१) । पुत्रपुत्रादिनी त्वमसि पापे वा हतः' जग्धयो ' (वा ५०२२) । पुत्रहती-पुत्रहती । पुत्रजग्धी-पुत्रजग्धी

५६ । त्रिप्रभृतिषु शाकटायनस्य । (८-४-५०)

त्र्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम् । इन्न्द्र -इन्द्रः । राष्ष्ट्रम्-रष्ट्रम्


लकार एवेत्यास्तान्तावत् । नादिन्याक्रोशे ॥ द्वे इत्यनुवर्तते । यर इति च । आक्रोशो नेिन्दा । आदिनीति डयन्त लुप्तसप्तमीकम आदिनीशब्दे परे पुत्रशब्दस्यावय वो य यर् तकार तस्य न द्वित्वम् । आक्रोशे गम्ये इत्यर्थ । तदाह पुत्रशब्दस्येत्यादिना ॥ पुत्रश ब्दावयवस्येत्यर्थ । पुत्रादिनी त्वमसि पापे इति। पुत्रानत्तु शीलमस्या पुत्रादिनी । ‘सुप्य जातौ' इति णिनि । ऋत्नेभ्य इति डीप् । हे पापे ! त्व पुत्रादिनीत्यन्वय । पुत्रघातिनीत्यर्थ ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् । सूत्रे आदिनीति डयन्तमेव विवक्षितमिति हरदत्त । माधवोऽप्येवम् । अत्र उकारात् परस्य तकारस्य अनचेि चेति प्राप्त द्वित्व निषिध्द्यते। रेफस्य तु न कवापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति ॥ आक्रोश इत्यस्य केि प्रयो जनमित्यर्थ । “कि पृच्छाया जुगुप्सने' इत्यव्ययवर्गे अमर एवमुत्तरत्राप्येवञ्जातीयकेषु द्रष्ट व्यम् । तत्वकथन इति ॥ यस्या पुत्रा स्वयमेव म्रियन्ते ता प्रति पुत्त्रादिनीति वस्तुस्थिति कथने तु न द्वित्वनिषेध । तत्र निन्दाया अप्रतीतेरित्यर्थ । तत्परे च ॥ वार्तिकमेतत् । स आदिनीशब्द परो यस्मात् स तत्पर आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरो न द्वित्वमित्यर्थ । पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रह । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्द परो न भवति । द्वितीयपुत्रशब्देन व्यवधानात् अत पूर्वसूत्रेण अप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयो हतशब्दे जग्धशब्दे च परे पुत्रश ब्दावयवस्य यूरो द्वित्व वा स्यादित्यर्थ । पुत्त्रहतीति ॥ तकारद्वित्वे रूपम्। पुत्रो हतो ययेति विग्रह । ‘अखाङ्गपूर्वपदात्’ इति डीष् इति केचित् । वस्तुतस्तु । जातिपूर्वादित्यस्य तत्रानुवृत्ते गौरादित्वात् डीषिति युक्तम् पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात् स्त्रीलिङ्गमेवोदा हृतम् । पुत्रहतीति ॥ द्वित्वाभावे रूपम् एव पुत्त्रजग्धी पुत्रजग्धीति अनचिचेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेत् हतजग्धयोरेव आक्रोश एवेति नियमार्थ मिद वार्तिकमित्याहु । त्रिप्रभृतिषु शाकटायनस्य ॥ त्रिचतुरादिषु हल्षु सयुक्तेषु आद्यस्य मध्द्ये अच परस्य यर द्वित्व शाकटायनमते । मतान्तरे तु नेत्यर्थ । इन्द्र इति