पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


रूपं तुल्यम् । लोपारम्भफलं तु “ आदित्यो देवता अस्येत्यादित्यं हविः' इत्यादौ ।

यमां यमि' इति यथासंख्यविज्ञानान्नेह । माहात्म्यम् तादात्म्यम् ।

६१ । एचोऽयवायावः । (७-१-७८)

६२ । तस्य लोपः । (१-३-९)

तस्येतो लोप स्यात् । इति यवयोर्लोपो न। उच्चारणसामर्थ्यात्। एवं च इत्सं.

ज्ञापीह न भवति । हरये । विष्णवे । नायक । पावक ।

यस्मिन् विधिस्तदादावल्ग्रहणे ।

सप्तम्यन्ते अल्ग्रहणे विशेषणीभूते योविधिरारभ्यते स तदादौ ज्ञेय.। येनवि


तर्हि किमस्य सूत्रस्य फलमित्यत आह । लोपारम्भेति ॥ 'दित्यदित्यादित्यपत्त्युत्तर पदाण्ण्य' इत्यादित्यशब्दात् शेषार्थण्यन्तात् देवतार्थे ण्य । आदित्य य इति स्थिते । “यस्येति च' इति यकारादकारस्य लोपे तकाराद्यकारस्य अनेन सूत्रेण लोप । तस्मिन् सत्येव आदित्यमित्येकयकार रूप सिद्धयति । नान्यथा । अत सूत्रारम्भो न विफल इति भाव । अत्र ‘आपत्यस्य च तद्धितेऽनाति’ इति लोपस्तु न । जाताद्यर्थकत्वेन आपत्यत्वाभावात् । अत्र त्वेतत् सूत्र न्याय्यत्वादुपन्यस्तमिति भाव । नन्वेवमपि महात्मनो भाव इत्यर्थे ‘गुणवचनब्राह्मणादिभ्य । इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपस्स्यात् । तस्य यम्त्वात् यकाररूपयमपरकत्वाच्चेत्यत आह । यमामिति । यथासख्यविज्ञानादिति ॥ विज्ञायते अने नेति विज्ञान सूत्रम् । “विज्ञान शिल्पशास्त्रयो ' इत्यमर । यथासख्यसूत्रादित्यर्थ । तथाच मका रस्य मकारे परत एव लोपलाभात् यकारे परे न लोप इत्यर्थ । एचोऽयवायावः ॥ अय् च अव् च आय् च आव् चेति विग्रह । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासख्यपरिभाषया एका रस्य अय्, ओकारस्य अव् , ऐकारस्य आय्, औकारस्य आव्, इति लभ्यते । तदाह । एचः क्रमादिति ॥ यथासख्यसूत्रभाष्यरीत्या तु अन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह इचोऽचि.यणयवायाव इत्येव सूत्रयितुमुचितम् । एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमिति इत्सज्ञाया लोपमाशङ्कितुमाह । तस्यलोपः॥ इत्सज्ञाप्रकरणान्ते इदसूत्रम्। तत्र तच्छब्दस्सन्नि हितम् इत परामृशति । तदाह । तस्येत इति ॥ इत्यनेन सूत्रेण यवयोलॉपो न शङ्कनीय इत्यर्थ । कुत इत्यत आह । उच्चारणेति ॥ यद्यत्र यवयोर्लोपस्यात् । तर्हितयोस्सूत्रे अनुच्चा रणमेव स्यात् । 'प्रक्षाळनाद्धि पङ्कस्य दूरादस्पर्शन वरम्’ इति न्यायादिति भाव । तर्हि किमनयोरित्सज्ञयेत्यत आह । एवञ्चेति । उक्तप्रकारेण लोपाभावे सति इत्सज्ञापि इह यकारे वकारे च नभवति । फलाभावादित्यर्थ । क्रमेणोदाहरति । हरय इत्यादिना ॥