पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४९
बालमनोरमा


इह-विष्णविह् । श्रियाउद्यत –श्रियायुद्यत । गुराउत्क -गुरावुत्क । '* कानि सन्ति' 'कौ स्त ’ इत्यत्रास्तेरल्लोपस्य स्थानिवद्भावेन यणावादेशौ प्राप्तौ *न पदान्त-' (सू ५१) इति सूत्रेण पदान्तविधौ तन्निषेधान्न स्त ।

६८ । एकः पूर्वपरयोः । ६-१-८४ ।

इयधिकृत्य

६९ । आद्गुणः ६-१-८७ ॥

अवर्णादचि परे पूर्वपरयोरेको गुण आदेश स्यात्संहितायाम् । उपेन्द्र । रमेश । गङ्गोदकम् ।


व्यवहिततया अच्परकत्वाभावादाशङ्कित अन्सन्धिर्नभवतीत्यर्थ । तदेवमिक्सन्धिरेच्सन्धिश्च निरूपित । तदुभयत्रातिप्रसङ्गमाशङ्कय समाधत्त । कानीत्यादिना । यद्यपि तथापीत्यध्द्याहा र्यम् । कानि सन्ति, कौ स्त, इत्यात्र यद्यपि यणावादेशौ प्राप्तौ । तथापि न भवत इत्यन्वय । नन्वत्र इकारौकारयोस्सकारपरकत्वादच्परकत्वाभावात् कय यणावो प्राप्तिरित्यत आह । अस्ते रल्लोपस्य स्थानिवद्भावेनेति ॥ असधातोरादादिकाल्लटि प्रथमपुरुषबहुवचने सन्तीति रूपम् । प्रथमपुरुषद्विवचने तु स्त इति रूपम् । उभयत्रापि ‘असोरल्लोप’ इति धात्वादेरकारस्य लोप इति स्थिति । तत्र अल्लोपस्य स्थानिवत्त्वेनाच्त्वादिकारौकारयोरच्परकत्वाद्यणावादेशौ प्रानुत इत्यर्थ । नच स्थानिवदादेशेऽनल्विवाविति स्थानिवद्भावोऽत्र न सम्भवति । अल्लोपस्य स्थानिभूतो य अकार त परनिमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविद्यो स्थान्यलाश्रयत्वा दिति वाच्यम् । “अच परस्मिन् पूर्वविधैौ' इति स्थानिवद्भावोपपत्ते । अल्लोपस्य किडिति परनिमित्ते विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानाभूतादकारात् पूर्वत्वेन दृष्टयोरिकारौ कारयोर्यणावादेशविवौ अच परस्मिन्निति प्रवृतैरिति भाव । तर्हि कुतोऽत्र यणावादेशौ न भवत इत्यत आह । नपदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति ॥ पदान्तभूते कारौकारयोस्स्थाने भवतोर्यणावादेशयो पदचरमावयवतया तयो कर्तव्ययो परनिमित्तकस्याजा देशस्याल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थ । अथ एकादेशसन्धि निरूपयितुमाह । एकः पूर्वप रयोः । इत्यधिकृत्येति । पदद्वयात्मकमिद सूत्रम् । उत्तरत्रानुवृत्यर्थ पठित्वा कतिपयस न्धय विधास्यन्त इत्यर्थे । आद्गुणः ॥ आदिति पञ्चमी नतु तपरकरणम् । एक पूर्वपरयोरित्य धिकृतम् । तदाह । अवर्णदचीत्यादिना । उपेन्द्र इति ॥ उप इन्द्र इति स्थिते पका रादकारस्य तस्मादिकारस्यचपूर्वपरयो कण्ठतालुस्थानकयो तथाविव एको गुण एकार । आन्त रतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्ता लक्षणा स्मारयितु दीर्घविषयोदाहरणमाह । रमेश इति ॥ रमा ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकार । गङ्गोदकमिति ॥ गङ्गा उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्ठस्थानकयो तथा विध एको गुण ओकार । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र