पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


७० । उरण्रपरः । (१-१-५१) ।

ऋ इति त्रिशत संज्ञा' इत्युक्तम्, तत्स्थाने योऽण् स रपर सन्नेव प्रवर्तते । तत्रान्तरतम्यात् *कृष्णर्द्धिं ' इत्यत्र अर् । * तवल्कारः' इत्यत्र अल् । अचो रहाभ्याम्--' (सू ५९) इति पक्षे द्वित्वम् ।

७१ । झरो झरेि सवर्णे । (८-४-६५) ।

हल परस्य झरो लोपो वा स्यात्सर्वो झरि । द्वित्वाभावे लोपे सत्येक धम् । असति लोपे, द्वित्वलोपयोर्वा, द्विधम् सति द्वित्वे लोपे चासति त्रिधम् ।


अकार ऋकारश्चेति द्वौ स्थानिनौ। तयेो अकार एकाटेर गोकारश्चेति त्रयोऽपि गुणा प्रसक्ता । अकारेण स्थानिना त्रयाणामपि कण्ठस्थानसाम्याविशेषतात्। ऋकारेण स्थानिना तु न कस्यापि स्थानसाम्यम्। तस्य मूर्धस्थानकत्वात् । एतेषाञ्च तदउभावत् । एव तव लृकार इति स्थिते त्रयो गुणा प्रसक्ता । अकारेण तेषा कण्ठस्थानसाम्याविशेषात् लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यम् । तत्र कतमो गुणो भवतीत्याकाक्षायामिदगरभ्यते । उरण्रपर. । इत्युक्त मिति ॥ अणुदित्सूत्र इति शेष । उ इति ऋ इत्यस्य षष्ठेकवचनम् । “षष्टी स्थाने' इति परि भाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थिरावपि स्थानेग्रहण ततोऽनुवर्तते । तदाह । तत्स्थाने योऽणिति ॥ स्थानेऽन्तरतम इत्यत:ऽपिस्थानेग्रहणमनुवर्तते । स्थान प्रस ङ्गइत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षित । तदाह ।, रपरस्सन्नेव प्रवर्तत इति । अत्र र इति प्रत्याहारो विवक्षितं । ततश्च रेफशिरस्को लदारशि स्कश्च प्रवर्तत इति लभ्यते । तयोर्व्यवस्था दर्शयति । तत्रेति ॥ रेफलकारशिरस्कयोऽर्मध्धे कृष्णर्द्धिरित्यत्र अर । तवल्कार इत्यत्र अलित्यन्वय । कुत इय व्यवस्थेत्यत आह । आन्त्र तयादिति ॥ त्रिषु गुणेषु प्रस ज्यमानेषु अकारस्य अणो रेफलकाराशिरस्कतया तस्य अर् अल् इत्येवमात्मकस्य, अकाराशे स्थानीभूतेन अकारेण, रेफाशे ऋकारेण, लकाराशे लृकारेण च, स्यानसाम्याद्कारऋकारयोस्स्थाने अरेव भवति । अकारलृकारयो स्थाने अलेव भवति । एकारौकौ तु गुणौ न भवत एव । तयोः ऋकारेण लृकारेण च स्थानसाम्याभावादित्यर्थ । नच एकार ओकारश्च कथरपरौ न स्याता मिति वाच्यम्। पूर्वेणैव णकारेण ह्यत्राण् गृह्यते । प्रशास्तृणामित्यदिनिर्देशादित्यलम् । पक्षे द्वित्वमिति ॥ ऋध धातो क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकार रूप स्वाभाविकम् । तत्र अरादेशे रेफात् परस्य धकारस्य अचो रहाभ्यामितेि कदाचिद्दित्वमित्यर्थ । झरो झरि सवर्णे ॥ झयो होऽन्यतरस्यामित्यत अन्यतरस्यामित्यनुवर्तते। हलो यमामित्यत हल इति, लोप इति, चानुवर्तते । तदाह । हलः परस्येत्यादिना ॥ तदिह रूपत्रय सम्पन्नमित्याह । द्वित्वाभाव इत्यादिना ॥ रेफात् परस्य ऋध् इति धात्वन्तस्य धकारस्य अचो रहाभ्यामिति द्वित्वाभावे सति झरो झरीतेि लोपे च सति एकधकार रूपमित्यर्थः । असतीति ॥ द्वित्वाभावे इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाभावे