पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५९
बालमनोरमा


कृष्णर्धि-कृष्णद्वि.-कृष्णर्दद्धि । “यण इति पञ्चमी मय इति षष्ठी' इति पक्षे ककारस्य द्वित्वम्। लस्य तु “ अनचि च' (सू ४८) इति । तेन *तवल्कारः इत्यत्र रूपचतुष्टयम् ।

द्वित्व लस्यैव कस्यैव नोभयोरुभयोरपि ।

तवल्कारादिषु बुधैर्बोद्ध्यं रूपचतुष्टयम्

७२ । वृद्धिरेचि । (६१-८८ )

आदेचि परे वृद्धिरेकादेश स्यात् । गुणापवाद् । कृष्णैकत्वम् । गङ्गौघ । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।

७३ । एत्यधत्यवठ्सु । (६-१-८९) ।


लोपे च असति द्विधकार रूपम् । तथा तस्यैव ऋधेर्वकारस्य द्वित्वे लोपे च सतेि द्विवकारमेव रूपमित्यर्थ । सतीति ॥ तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकार रूपमित्यर्थ । यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्द्यमधकारस्य च 'झला ञ्जश् झशि'इति जश्त्वेन दकारो भवति। तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्व त्रिध त्वञ्चेति न दोष । अथ तवल्कार इत्यत्राह । यण इति ॥ यण परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्व लकारस्य तु अनचि चेति द्वित्वमित्यर्थ । तेनेति ॥ लकारककारयो र्द्वित्वविकल्पेनेत्यर्थ । द्वित्वं लस्यैवेति ॥ लकारस्य द्वित्वे ककारस्य द्वित्वाभावे च सति द्विलकारमेकककारञ्च प्रथम रूपमित्यर्थ । कस्यैवेति ॥ ककारस्य द्वित्वे लकारस्य द्वित्वाभावे द्विककारमेकलकारश्च द्वितीय रूपमित्यर्थ । नोभयोरिति ॥ लकारककारयोरुभयोरपि द्वित्वा भावे एकलकारमेकककार तृतीय रूपमित्यर्थ । उभयोरपीति ॥ लकारककारयोरुभयोरपि द्वित्वे द्विलकार द्विककारश्चतुर्थ रूपमित्यर्थ । तवल्वकारादिष्विति ॥ आदिना ममल्का रादिसङ्गह । वृद्धिरेचि ॥ आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । एक पूर्वपरयो रित्यधिकृतम् । तदाह । आदेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदा रम्भ इति भाव । कृष्णैकत्वमिति ॥ कृष्णस्य एकत्वमिति षष्ठीसमास । 'पूरणगुण' इति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्वद्यन्त पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेश । गङ्गा ओघ, इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकार । एव देवैश्वर्यम् । कृष्णौ त्कण्ठयमित्यत्रापि । वस्तुतस्तु सङ्खयादिशब्दा न गुणवचना इति तत्रैव वक्ष्याम । एत्येध त्यूठ्सु ॥ एतिश्च एधतिश्च ऊठ् चेति विग्रहः एतीति एधतीति च 'इक्श् तिपौ धातुनिर्देशे' इति श्तिपा निर्देश । इण् गताविति, एध वृद्धाविति च, धातू विवक्षितौ। एचीत्यनुवर्तते। ‘यस्मि न्विधि ' इति तदादिग्रहणम् । एजादाविति लभ्यते तच्च एत्येधत्योरेव विशेषणम् । न तु । ऊठ असम्भवात् । एकः पूर्वपरयोरित्यधिकृतम्। आद्रुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तदाह ।