पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेश स्यात् । पररूपगुणा पवाद् । उपैति । उपैधते । प्रष्ठौह । ८ एजाद्यो' ' किम् । उपेत” । माभवान्प्रे


अवर्णादित्यादिना। उपैतीति ॥ इण् धातोर्लट् । तिप् शप् लुक् ‘सार्ववातुक’ इति इकारस्य गुण एकार । उप एतीति स्थिते अनेन वृद्धि । उपैधत इति । एधवातोर्लट् आत्मनेपद तादेश शप् 'टित आत्मनेपदानाम्' इत्येत्वम् । उप एधते इति स्थिते अनेन वृद्धि । प्रष्ठौह इति । प्रष्ठ वहतीति प्रष्ठवाट्। ‘वहश्च' इति ण्वि । ‘वेरपृक्तस्य’ इति वलोप । अत उपधाया इति वृद्धि । ततश्शसि वसोस्सम्प्रसारणमित्यतस्सम्प्रसारणमित्यनुवृत्तौ ‘वाह ऊट’ इति सम्प्रसारणसज्ञ कस्य ऊठस्सम्प्रसारणाचेति पूर्वरूपम् । प्रष्ठ ऊह् इति स्थिते अनेन वृद्धि औकार । नन्वत्र एत्येध तिग्रहण व्यर्थम्। उपैति उपैधत इत्यत्र वृद्धिरेचीत्यनेनैव वृद्धिसम्भवात् । ऊठ् ग्रहणमपि व्यर्थम् । वृद्धिरचीत्येव सिद्धे । वाह ऊठ् सूत्रे ऊठ ग्रहणानर्थक्यम् । सम्प्रसारणेन कृतत्वात् । गुणस्तु प्रत्ययलोपलक्षणत्वात् । एजग्रहणाद्वृद्धिरिति वार्तिककृता तथैवोक्तत्वात् । वाह ऊठ् ग्रहणन्नकर्त व्यम्। वाह इत्येव सूत्रमस्तु । भस्य वाहस्सम्प्रसारण स्यादिति सम्प्रसारणमेव विधीयताम् । ततश्च वकारय उकारे सम्प्रसारणे पूर्वरूपे सति उड् इति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ ओह इति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थ । तस्मादेत्येधत्यूठ्सु इति सूत्र व्यर्थमित्यत आह । पररूपगुणापवाद इति ॥ एयेधत्योरेडि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थ । यदि हि वाहस्सम्प्रसारणमेव विधीयेत न तु ऊठ्, तर्हि वस्य सम्प्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपवगुणो न भवति । तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसज्ञापेक्षसम्प्रसारणाश्रितपूर्वरूपस्य बहिरङ्गतया अत्र सिद्धत्वात् । तथाच गुणाभावे प्रष्ठ उ आहू इति स्थिते पूर्वरूपे प्रष्ठ उह इति स्थिते आद्गुण इति गुणे ओकारे प्रष्ठोह इति स्यात् । सम्प्रसारणसज्ञकस्य ऊठो विवौ तु प्रष्ठ ऊ आहू इति स्थिते पूर्वरूपे लघूपधगुणस्याप्रसक्ततया ओकारस्याभावादूकारस्यैव सत्वान् वृद्धिरेचीत्यस्याप्रसत्तेराद्गुण इति प्रासे एत्येधत्यूठस्विति वृद्धौ प्रष्ठौह इति सिध्द्यतीत्यूट्ग्रहणमावश्यकामिति वाह ऊठ् सूत्रे समु दाहृतवार्तिक भाष्ये दूषितमित्यास्तान्तावत् । उपेत इति ॥ इणुधातोर्लट् तस् शप् लुक् सार्वधातृकमपिदिति तस्य कित्त्वात् तस्मिन् परत इकारस्य न गुण । अत्र इण् धातोरेजादि त्वाभावात्तस्मिन् परतो न वृद्धि । माभवान्प्रेदिधदिति ॥ एवधातोर्णिच् । लुडतिप् नित्य डित’ इति इकारलोप । “णिश्रिदुस्रु-य' इति चड् । ‘णौ चडयुपधाया ह्रस्व'। ‘चडि’ इत्यजा देर्द्वितीयस्य धिशब्दस्य द्वित्वम् । अभ्यासे चचेंति जश्त्वम् । न माड्योग इत्याडभाव । भवच्छ ब्दयोगात् प्रथमपुरुष । तच्च तिडन्ताधिकारे स्पष्टीभविष्यति । । प्र इदिधदिति स्थिते एत्ये धतीति न वृद्धि । एधधातेोरेजादित्वाभावात् । तत्र एजादित्वविशेषणाभावे तु इहापि वृद्धि स्स्यात् । न च णौ चडीत्येकारस्य हृस्वेन इकारे सति नायमेधधातुरिति वाच्यम् । एकदेश विकृतस्यानन्यत्वात् । अत्र माड विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामि त्याडागमे आटश्चेति वृद्वौ प्र ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव । भवच्छब्दस्तु चिन्त्यप्रयोजन । ननु आ इहेि आद्गुण एहि अव एहीति स्थिते एकादेशस्य गुणस्य