पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५७
बालमनोरमा


चर्षिदेवतयो ' (सू ३१६७) इत्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धातौ' इति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन *ऋत्यक ' (सू ९२) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ।

७७ । वा सुप्यापिशलेः । (६-१-९२)

अवर्णान्तादुपसर्गदृकारादौ सुब्धातौ परे वृद्धिरकोदशो वा स्यात् । आपिश लिग्रहणं पूजार्थम् । प्रार्षभीयति-प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम्। उपा ल्कारीयति-उपल्कारीयति । तपरत्वाद्दीर्धे न । उप ऋकारीयति-उपर्कारीयति ।


वाताविति व्यर्थम् । उपसर्गग्रहणादेव वातावित्यस्य सिद्धे । ि क्रियायोगे सत्येव उपसर्गसज्ञा विधानात् । नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवत्यर्थमिह धातुग्रहणमिति वाच्यम् । यत्क्रियायुक्ता प्रादय त प्रत्येव गत्युपसर्गः सज्ञा इति परिभाषया गम्यमानगमनक्रिया प्रत्येव उपसर्गत्वात् । प्रकृते च ऋकारादिनिमि त्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशक्याह । उपसर्गेणैवेत्यादिना ॥ उपसर्गग्रहणेनैव वातो आक्षेपे अन्यथानुपपत्तिरूपार्थापत्तितो लाभे सति पुन वाताविति वचन पुनर्विवानार्थ मित्यन्वय । कथ पुनर्विधानलाभ इत्यत आह । योगविभागेनेति । योगशब्दस्सूत्रशब्द पर्याय । उपसर्गादृतीति, धाताविति च, सूत्र विभज्यते । तत्र उपसर्गादृतीति पूर्वसूत्रे धातावि त्यर्थाल्लभ्यमादाय उक्तार्थलाभ । धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्तते । तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्र सम्पद्यत इति पुनर्विधानलाभ इत्यर्थ । किमर्थमिद पुनर्विधानमित्यत आह । तेनेति । पुनर्विधानेनेत्यर्थ । नभवतीति ॥ परोऽपि प्रकृतिभाव पुनर्विधानसाम र्थ्यात् बाध्द्यत इत्यर्थ । वा सुपि ॥ उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण इत्यत वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधि । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षित । एक पूर्वपरयोरिति चाविकृतम् । तदाह । अवर्णान्तादित्यादिना । सुब्धाताविति ॥ सुबन्त प्रकृतिकवातौ परत इत्यर्थे । सुबन्तस्य धातोरसम्भवात् । एकादेश इति ॥ पूर्वपरयोरचोरिति शेष । यद्यपि ऋच्छ गतावित्यादीना किपि धातुत्व सुबन्तत्वञ्च सम्भवति। तथापि तुल्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात् । सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशलिग्रहण व्यर्थमित्यत आह । आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थ सम्मत इत्यादरलाभार्थमित्यर्थ । प्रार्षभीयतीति ॥ ऋषभ मात्मन इच्छतीत्यर्थे सुप आत्मन क्यच्'सनाद्यन्ता’ इति धातुत्वम् । ‘सुपो धातुप्रातिपदिकयो इति सुपो लुक् 'क्यचि च' इति ईत्वम्, लट्, तिप्, शप् , पररूपम्। प्र ऋषभीयति इति स्थिते अनेन वृध्धि आकार रपरत्वम् । प्रर्षभीयतीति ।। वृध्ध्यभावपक्षे आद्गुण रपरत्वम् ।साव र्ण्यादिति ॥ ऋ ल वर्णयोरिति सावर्ण्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थ । उपाल्वकारीय तीति ॥ लृकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्व विशेष. । उपल्कारीयतीति ॥