पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५९
बालमनोरमा

अचां मध्ये योऽन्त्य स आदिर्यस्य तट्टिसंज्ञ स्यात् । * शकन्ध्वादिषु पररूप वाच्यम्’ (वा ३६३२)। तच्च टे । शकन्धु । कर्कन्धु । कुलटा । “सी मन्त केशवेशे' (वा ३६३३) । सीमान्तोऽन्य । मनीषा । हलीषा । लाङ्ग लीषा । पतञ्जलि । “सारङ्ग पशुपक्षिणो '(ग १३६) । साराङ्गोऽन्य । आकृ तिगणोऽयम् । मार्तण्ड । “ओत्वोष्ठयोः समासे वा' (वा ३६३४) । स्थूलोतु स्थूलौतु । बिम्बोष्ट-बिम्बौष्ठ । “ समासे' किम् । तवौष्ठ ।


फलितमाह । अचाम्मध्द्य इत्यादिना । शकन्ध्वादिष्विति ॥ शकन्ध्वादिषु विषये तत्सिध्द्यर्थ पूर्वपरयो पररूप वक्तव्यमित्यर्थ । ततश्च शकादिशब्दाना टेरचि परे टेश्च परस्याच स्स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते । आदित्यनुवृत्तौ शकन्वादिगणे सीमन्त इत्यादि कति पयरूपाणामसिद्धे । तदाह । तञ्च टेरिति ॥ शकन्ध्वादिगण पठति । शकन्धुरित्यादिना ॥ शकानान्देशविशेषाणा अन्धु कूप इति विग्रह । शक अन्धु इति स्थिते सवर्णदीर्घे प्राप्ते अनेन पररूपम् । अत्र शकशब्दे द्वावचौ । तत्र अन्त्य अच् ककारादकार, तदादि अकार एव । ‘आद्यन्तवदेकस्मिन्’ इति वचनात्। एवमग्रेऽपि द्रष्टव्यम् । कर्कन्धुरिति । कर्काणा राज्ञा अन्धुरिति विग्रह । कर्क अन्धु इति स्थिते पररूपम्। कुलटेति ॥ अट गतौ । पचाद्यच् । टाप्। कुलाना अटेति विग्रह । भिक्षार्थ व्यभिचारार्थ वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कमर्ण्यणि टिड्ढाणनिति डीप् स्यात् । कुल अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति ॥ गणान्तर्गतवार्तिकमेतत् । केशाना वेशस्सन्निवेशविशेष तस्मिन् गम्ये सीमन्शब्दस्य टेरन् इत्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थं । आदित्यनुवृत्तौ तु इदन्न सिध्द्येत् । सीमान्तोऽन्य इति ॥ ग्रामान्तप्रदेश इत्यर्थ । मनीषेति । मनस ईषेति विग्रह । अत्र अस् इति टे ईकारस्य स्थाने पररूपमीकार । ईष गतौ। ‘गुरोश्च हल’ इत्यप्रत्यय । टाप् प्रत्यय । “बुद्धिर्मनीषेत्यमर ' । हलीषेति ॥ “ईषा लाङ्गलदण्डस्यादित्यमर ' । हलस्य ईषेति विग्रह् । करिकळभ इतिवत् पुनरुक्तिस्समाधेया । अत्र गुणे प्राप्ते पररूपम् । एव लाङ्गलीषेत्यत्रापि । पतञ्जलिरिति ॥ पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रह । अत्र अत् इति टे अकारस्य च स्थाने पररूपमकार । केचित्तु, गोनर्दाख्यदेशे कस्यचिदृषे स्सन्ध्योपासनसमये अञ्जलेर्निर्गत इत्यैतिह्यात् अञ्जले पतान्निति विगृह्णान्ति । मयूरव्यसकादि त्वात् समास । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गत वार्तिकम् । भाष्ये तु न दृश्यते । सारशब्द उत्कृष्ट “सारो बले स्थिराशे च न्याय्ये क्लीबेऽम्बरे त्रिष्वित्यमर ' । साराणि अङ्गानि यस्येति विग्रह । सार अङ्ग इति स्थिते सवर्णदीर्घे प्राप्ते अनेन पररूपम् । “चातके हरिणे पुसि सारङ्गश्शवळे त्रिष्वित्यमर ” । आकृतिगणोऽयमिति ॥ आकृत्या एवञ्जातीय कतया निर्णेतव्योऽय गण इत्यर्थ । लोकप्रयोगानुसारेण एवञ्जातीयकाश्शब्दा अस्मिन् गणे निवेशनीया इति यावत् । तत्फलमाह । मार्तण्ड इति ॥ मृत अण्ड यस्य स मृतण्ड कश्चि