पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
'
'६१
बालमनोरमा

प्रकरणम्]


आम्रेडितस्य प्रागुक्त न स्यात् । अन्त्यस्य तु तकारमात्रस्य वा स्यात् । डाचि बहुलं द्वे भवत ' (वा ४६९७) । इति बहुलग्रहणात् द्वित्वम् ।

८३ । तस्य परमाम्रेडितम् । (८-१-२

द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञ स्यात् । पटत्पटेति ।

८४ । झलां जशेऽन्ते । (८-२-३९)

पदान्ते झलां जश स्यु । पटत्पटदिति ।

८५ । अकः सवर्णे दीर्घः । (६-१-१०१)


अक सवर्णेऽचि परे दीर्घ एकादेश स्यात् । दैत्यारि । श्रीश । विष्णू दय । * अचि' किम् । कुमारी शेते । 'नाज्झलौ' (सू १३) इति सावर्ण्यनि तस्य इतिशब्दे परे पररूप न स्यात् । अन्त्यस्य तु वा। तुरवधारणे । अत्शब्दान्त्यस्य तकार स्यैव इकारस्य च पररूप वा स्यात् । नत्वकारस्यापीत्यर्थ । तदाह । आम्रडितस्य प्रागुक्त मित्यादिना ॥ ननु पटत् पटत् इत्यत्र कथ द्वित्वमित्यत आह । डाचीति । “डाचि बहुळ द्वे भवत' इति द्वित्वमित्यन्वय । ननु “अव्यक्तानुकरणात् द्वयजवराद्धदनितौ डाच्’ इति डाच कथमिह सम्भव । इति शब्दे परतस्तत्पर्युदासस्स्यादित्यत आह । बहुळग्रहणादिति ॥ चेत्यनुक्का बहुळग्रहणमधिकविधानार्थम् । बहूनर्यान् लाति गृह्णातीति तद्वयुत्पत्तेरिति भाव । अभियुक्ताश्चाहु “क्वचित् प्रवृत्ति क्वचिदप्रवृत्ति कचिद्विभाषा कचिदन्यदेव । शिष्टप्रयोगाननु सृत्य लोके विज्ञेयमेतत् बहुळग्रहे तु ” इति । ननु किमाम्रेडितन्नाम । तत्राह । तस्यपरमा म्रेडितम् ॥ सर्वस्य द्वे इत्यनन्तरमिद सूत्र पठ्यते । ततश्च तस्येत्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात् षष्ठी । तदाह । द्विरुक्तस्येत्यादिना। पटत्पटे तीति । पटत् पटत् इति इति स्थिते तकारस्य इकारस्य च पररूप इकार । ततश्च आद्गुण । अथपररूपाभावपक्षे पटत् पटत् इतीत्यत्र तकारस्य दकार विधत्ते । झलाञ्जऽशोऽन्ते ॥ पदस्येत्यधिकृतम् । तदाह । पदान्त इति । पटत् पटदितीति ॥ स्थानसाम्यात् तकार स्य दकारो जशिति भाव । अत्र अत्शब्दस्य पररूपनिषेधाभावे तकारमात्रस्य पररूपैकादेश विकल्पविधौ तस्य पररूपाभावपक्षे अत्शब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् । अकस्सवर्णे ॥ अक इति पञ्चमी । इको यणचीत्यत अचत्यनुवर्तते । एक पूर्व परयोरित्यधिकृतम् । तदाह । अकस्सवर्णेऽचीत्यादिना । दैत्यारिरिति ॥ दैत्य अरि इति स्थिते द्वयोरकारयोरेको दीर्घ आकार, स्थानसाम्यात् । श्री ईश इति स्थिते ईकारयोः रेक ईकार । विष्णु उदय इति स्थिते उकारयोरूकार । अत्राचीत्यनुवृत्ते किं प्रयो जनमिति पृच्छति । आचि किमिति । कुमारी शेत इति ॥ अचीत्यननुवृत्तौ ईका रस्य शकारस्य च तालुस्थानविवृतप्रयत्न्नसाम्येन सवर्णतया तयोदीर्घ. ईकार एकादेशस्स्यात् ।