पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


८८ । अवङ् स्फोटायनस्य । (६-१-१२३)

अति' इति निवृत्तम् । अचि परे पदान्ते गोरवड् वा स्यात् । गवा ग्रम् । “ पदान्ते' किम् । गवि । व्यवस्थितविभाषया गवाक्ष ।

८९ । इन्द्रे च । (६-१-१२४)

गोरवड् स्यादिन्द्रे गवेन्द्र ।

अथ प्रकृतिभाव ।

९० । प्लुतप्रगृह्या अचि नित्यम् । (६-१-१२५)

प्लुता प्रगृह्याश्च वक्ष्यन्ते, तेऽचि परे नित्य प्रकृत्या स्यु । एहि कृष्ण३


एव डसिडसोश्चेति तत्र पूर्वरूपारम्भात् । अवटु स्फोटायनस्य । अतीति निवृत्तमिति ॥ एड पदान्तादित्यत इति शेष । व्याख्यानादिति भाव । पदान्तादिति गोरिति अचीति चानुवर्तते । स्फोटायनस्य ऋषे मते अवड् । अन्यस्य तु न । ततश्च विकल्पस्सिद्ध । तदाह । अचि पर इत्यादिना ॥ डिचेल्यन्तादेश । गावाग्रमिति ॥ गो अग्रामिति स्थित गकारादोकारस्यावड । गव अग्र इति स्थिते सवर्णदीर्घ । न च अग्रशब्दे अकारमच परत्वेनाश्रित्य प्रवृत्त अवड् कथन्तद्विघातक सवर्णदीर्घ प्रवर्तयति । सन्निपातपरिभाषाविरोधादिति वाच्यम् । सन्निपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्य माणत्वात् । गवीति ॥ गो इ इति स्थिते ओकारस्य पदान्तत्वविरहान्नावड् । नापि पूर्व सूत्रात् प्रकृतिभावपररूपे । किन्तु/यणादेश । अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्द्येत् । व्यवस्थितेति ॥ क्वचित् भवतीत्यश एव प्रवर्तते, क्वचित्तु न भवतीत्यश एव, क्वचिदुभय मित्येव लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थिताविभाषा सर्वत्र विभाषा गो रित्यत्राश्रीयते । ततश्च गवाक्ष इत्यत्र नित्यमवड् इत्यर्थ । इदञ्च “देवत्रातो गळो ग्राह इति योगे च सद्विधि । मिथस्तेन विभाष्यन्ते गवाक्षस्सशितव्रत ” इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवा किरणानामक्षीवेति विग्रह । अक्ष्णोऽदर्शनादित्यच् । पुस्त्व लोकात् । “वातायन गवाक्षसस्यादित्यमर ” । इन्द्रे च ॥ गोः अवड् अचीत्यनुवर्तते । तदाह । गोरिति ॥ विकल्पनिवृत्यर्थ पुनरारम्भ । गवेन्द्र इति ॥ गो इन्द इति स्थिते अवड आद्गुण । अथ प्रकृतिभाव इति ॥ निरूप्यत इति शेष । प्लुतप्रगृह्या । वक्ष्यन्त इति ॥ दूराद्धूते चेत्यादिना ईदूदेदित्यादिना चेत्यर्थ । प्रकृत्येति ॥ प्रकृत्यान्त पादमित्यतस्तदनुवृत्तेरिति भाव । प्रकृत्या स्वभावेनावस्थितास्युरित्यर्थ । सन्धयो न भव न्तीति यावत् । एहि कृष्ण३ अत्रेति । दूराद्भूतेचेति णकारादकार प्लुत । तस्य अकारे न सवर्णदीर्घ. । हरी एताविति । ईदूदेदिति रेफादीकार प्रगृह्य तस्य यणादेशो न