पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६७
बालमनोरमा


९४ । प्रत्यभिवादेऽशूद्रे । (८-२-८३)


वाक्यस्य टे पदावयवस्य प्लुतो भवति, स च उदात्तो भवतीत्यर्थ । अत्र पदस्ये त्यनुवृत्तिर्नश्छव्यप्रशानित्याद्यत्तर्राथा । इहानुवृतिविच्छेदे उत्तरत्रानुवृत्तरसम्भवात् वाक्यस्येत्य भावे पदस्य टेरित्युक्ते यावन्ति वाक्येय पदानि तावता टे प्लुत प्रसज्येत । वाक्यस्येत्युक्त्ते तु वाक्यस्य टेरन्त्यस्यैव पदस्य सम्भवतीति न दोप । टिग्रहणाभावे लुतश्रुत्या अचश्चेति परि भाषया अच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात् तदन्तविधौ अजन्तस्य वाक्यस्येत्यर्थे सति अलोऽन्त्यपरिभापया वाक्यान्तस्याच प्लुत इति पर्यवसानातू ग्राम गच्छान्निचित् इत्यादिहलन्तवाक्येषु प्लुतो न स्यात् । टि ग्रहणे तु तत्सामर्थ्यादेव टेिना अचो विशेषणात् टेरवयवस्याच प्लुत इत्यर्थो लभ्यत इति न दोप इति भाष्ये स्पष्टम् । इत्यधिकृत्येति । प्लुताविधय आरभ्यन्त इति शेष प्रत्याभिवादेऽशशूद्रे ॥ वाक्यस्य टे प्लुत उदात्त इत्यधिकृतम् । अशूद्र इति च्छेद । न शूद्र अशूद्र द्विजाति तद्विषय प्रत्यभिवाद विधिवत् अभिवादयमान प्रति विधिवदाशीर्वचनम् । भावे घञ् अस्मिन् प्रत्यभिवादे विषये यद्वाक्य तस्य टे प्लुतस्स्यात् स चोदात्त इत्यर्थ । अभिवादविधिमाह । आपस्तम्ब । 'दक्षिणबाहु श्रोत्रसम प्रसार्य ब्राह्मणोऽभिवादयीत । उरस्सम राजन्य , मद्यसम वैश्य , नीचैश्शूद्र, प्राञ्जलेि इति । “तिष्ठन् प्रातरभिवादमभिवादयीतासावह भो ' इति च । असाविति स्वनामनिर्देशोऽभि मत । देवदत्तोऽह भो इति बुवन् अभिवाद आशीर्वचन अभिवादयीत वक्तव्यत्वेन विज्ञापयेत् ततश्च यथावर्ण दक्षिण बाहु प्रसार्य अभिवादये देवदत्तोऽह भो इति ब्रूयादित्यर्थ । अयमभि प्रत्यभिवादनप्रकारस्तु मनुना दार्शत । “आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने । अकारश्चास्य नाम्रोऽन्ते वाच्य पूर्वाक्षर प्लुत ?” इति । अत्र नाम्रोऽन्ते इतिवचनात् आयुष्मान् भव सौम्येत्यनन्तरमभिवादयमानस्य नाम सम्बुद्यन्त प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीत भवति । अरय नाम्न अन्ते अकारश्च वाच्य प्रयोज्य । तस्मादकारात् पूर्वाक्षर पूर्व अच प्लुत प्रयोक्तव्य इत्यर्थे । एवञ्च आयुष्वान् भव सौम्य देवदत्त३ अ इति प्रत्यभिवादवाक्य सम्पन्नमिति स्थिति । अभिवादये देवदत्तोहमिति अभिवादवाक्यप्रदर्शन भो इत्यस्याप्युपलक्षणम् आयुष्मान् भव देवदत्त ३ इति अभिवादये इत्यस्य अभिवादनमाशीर्वचन इति विज्ञापयामीत्यर्थ । भवेत्यनन्तर सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम् । अत्र देवदत्तशब्दे तकारादकारस्य प्लुत । आयुष्म त्वस्य विधेयत्वात् सम्बोधनविभक्त्यभाव अत्र प्रत्यभिवादवाक्ये शर्मान्त ब्राह्मणस्येत्यादि न भवति । एचोऽप्रगृह्यस्येति सूत्रे शर्मादिशब्द विना केवलस्य नाम्नो भाष्ये उदाहरणात् उक्त मन्वादिस्मृतिविरोधाच्च । अशूद्र इति किम् । “कुशल्यसि तुषजक' इति भाष्यम् । एवञ्च शूद्रः विषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते अशूद्रस्त्रयसूयकेष्विति वक्तव्यम्' इति वार्तिकम् । शूद्रविषय एव प्लुतप्रतिषेधो न भवति । किन्तु शूद्रवत् स्त्रीविषये असूयकविषयेऽ