पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७१
बालमनोरमा


अमू । पचेते इमौ । “मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इत्यत्र त्वि वार्थे वशव्दो वाशब्दो वा बोध्द्य ।

१०१ । अदसो मात् । (१-१-१२)

अस्मात्परावीदूतौ प्रगृह्यौ स्त. । अमी ईशा । रामकृष्णावमू आसाते । मात्' किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ।


दन्तमिति तदन्तविवे प्रयोजनन्दर्शयितुमाह । पचेते इमाविति । तदन्तविद्वद्यभावे ईदूदे दात्मक द्विवचन प्रगृह्यमिति लभ्येत । एव सति पचेते इत्यत्र ते इति द्विवचनस्य एद्रूपत्वाभावात् प्रगृह्यत्वन्नस्यादिति भाव । ईदूदेदन्त यद्द्विवचनान्तमिति व्याख्याने तु कुमार्योरगार कुमार्य गारमित्यत्रातिप्रसङ्गस्स्यात् । ईदूदेदन्त द्विवचनमिति व्याख्याने तु नातिप्रसङ्ग । ओसो द्विवच नस्य ईदूदेदन्तत्वाभावात् । ननु “मणीवोष्टस्य लम्बेते प्रियौ वत्सतरा मम' इति भारत-लोके मणी इवेति ईकारस्य प्रगृह्यत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह । मणीवो ष्ट्रस्येत्यादिना ॥ “व प्रचेतसि जानीयादिवार्थे च तदव्ययम्’ इति मेदिनी । “व वा यथा तथै वैव साम्य' इत्यमर । अदसो मात् । अदस इत्यवयवषष्ठी । अदश्शब्दावयवात्मकमकारादि त्यर्थ । ईदृदिति प्रगृह्यमिति चानुवर्तते । मादिनि दिग्योगे पञ्चमी । परशब्दोऽद्याहार्य । तदाह । अस्मात् पराविति । अदश्शब्दावयवमकारान् परावित्यर्थ । एदिति नानुवर्तते । अदश्शब्दे मकारात् परस्य एकारस्यासम्भवात् । द्विवचनमित्यपि नानुवर्तते । अदश्शब्दे मकारात् परस्य इकारस्य अमी इति बहुवचनत्वात् ऊकारस्य च मकारात्परस्य तत्र द्विवच नान्तेष्वेव सत्वेन व्यावर्त्याभावात् । अमी ईशा इति । अदश्शब्दाजसि त्यदाद्यत्व पररूप त्व जसश्शी आद्गुण अदे इति स्थिते एकारस्य एत ईदिति ईत्व दस्य च मत्व अमी इति रूपम् । अत्र ईंकारस्य द्विवचनत्वाभावात् पूर्वसूत्रेण प्रगृह्यसज्ञा न प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति पुलिङ्गादश्शब्दात् प्रथमाद्विवचने औडि, त्यदाद्यत्व, पररूपत्व वृद्धिरेचि, अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वम्, अमू इति रूपम् । यद्यप्ययमूकारो द्विवचन भवति । तथापि पूर्वसूत्रेण प्रगृह्यत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्रदृष्टया सत्वात् पूर्वसूत्रेण तस्य प्रगृह्यत्वन्नप्राप्तमित्यनेन विधीयते । अदसो मादिति सूत्र प्रति तु उत्वमत्वे नासिद्धे । आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यम् । हरी एतैौ विष्णू इमावित्यादौ चरितार्थत्वात् । स्त्रियौ फले वा अमू आसाते इति स्त्रीलिङ्गो नपुसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि । स्त्रीलिङ्गाददश्शब्दात् औडेि, त्यदाद्यत्वे, पररूपत्वे, टापि औड आप इति शीभावे, आद्गुणे, अदे इति स्थिते उत्वमत्वयोरमू इति रूपम् । तथा नपुसक लिङ्गात्तस्मादौडि, त्यदाद्यत्वे, पररूपत्वे, नपुसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम्। अत्र पूर्वसूत्रेणैव प्रगृह्यत्व सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्वात् । अत पुलिङ्ग एव अदश्शब्द अत्रोदाहरणमिति प्रदर्शयितु रामकृष्णावित्युक्तम् । मात्कि मिति ॥ अदस इत्येव सूत्रमस्तु । माद्वहणस्य कि प्रयोजनमिति प्रश्न. । अमुकेऽत्रेति ॥