पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७७
बालमनोरमा


सर्पिष्टमम् । * अनाम्नवतिनगरीणामिति वाच्यम्’ (वा ५०१६) । षण्णाम् । षण्णवति । षण्णगर्य ।

११५ । तोः षि । (८-४-४३)

तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ट । “झला जशोऽन्ते' (सू८४) । वागीश । चिदूपम् ।

११६ । यरोऽनुनासिकेऽनुनासिको वा । (८-४-४५)

यर पदान्तस्यानुनासिके परेऽनुनासिको वा स्यान् । एतन्मुरारि --एत दूमुरारि । स्थानप्रयत्राभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते ।


तकारस्य टुत्वम् । तस्य टवर्गात् परत्वेऽपि पदान्तान् परत्वाभावात् न टुत्वनिषेध । सर्पिष्टम मिति ॥ सर्पिष् तमम् इति स्थिते स्वादिष्वसर्वनामस्थान इति, अन्तर्वत्तिनी विभक्तिमाश्रित्य वा , पदत्वात् षकारस्य पदान्तत्वात्तत परस्य तकारस्य टुत्वनिपेधो न भवति । पदान्ताट्टवर्गत्परत्वा भावात् । नच षकारस्य “झलाञ्जशोऽन्त’ इति जश्त्वेन डकारे सति तकारस्य टो परत्वात् टुत्व निषेधस्यादेवेति वाच्यम् । ह्रस्वात्तादौ तद्धित इति षत्वस्यासिद्धत्वेन जश्त्वाभावात् इह आदेशप्रत्यययोरिति पत्वन्तु न भवति । ‘अपदान्तस्य मूर्द्धन्य' इत्यधिकारात् । अनाम् नवति ॥ श्ष्टुत्वप्रतिषेध नाम एव पर्युदासो न भवति । किन्तु नवतिनगरीशब्दावयव नकारस्यापि पर्युदासो वक्तव्य इत्यर्थ । षण्णामिति ॥ षष् नामिति स्थिते “स्वादिष्वसर्व नामस्थाने' इति पदान्तत्वात् षस्य जश्त्वेन डकारे “प्रत्यये भाषायान्नित्यम्' इति तस्य णकार । अत्र टवर्गयोगात् नकारस्य टुत्वम् । नपदान्तादिति निषेधस्तु न । अनामिति पर्युदासात् । षण्णवतिरिति ॥ षडधिका नवतिरिति विग्रह । अत्रापि नकारस्य न टुत्वनिषेध । नवति शब्दस्यापि पर्युदासात् । षण्णगर्य इति ॥ पृथक्पदे । न तु कर्मधारय । 'दिक्सङ्खये सज्ञा याम्' इति नियमात् । अत्रापि नपदान्तादिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति । नगरीशब्दस्यापि पर्युदासात् । तोष्षि ॥ ष्टुंरिति नेति चानुवर्तते । तदाह । तवर्गस्येति सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्व प्राप्त निषिध्द्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासङ्खयन्नेति बिज्ञायते । झलाञ्जशोऽन्ते इत्यच्सन्धि निरूपणे प्रसङ्गादुपन्यस्तम्। हल्सन्धिप्रस्तावे पुनस्तदुपन्यास । यरोऽनुनासिके। न पदान्ता ट्टोरियत पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तदाह । यर. पदान्तस्येति॥ एतन्मुरारिति कर्मधारय । एतद् मुरारिरिति स्थिते दस्य अनुनासिको नकार दन्तस्थान साम्यात् स्पृष्टप्रयत्न्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिकेो णकारस्यात्, रेफ णकारयो स्पृष्टेषत्स्पृष्टप्रयत्न्नभेदेऽपि मूर्वस्थानान्तर्यादित्यत आह । स्थानेति ॥ एतन्मुरारि रित्यादौ स्थानत प्रयन्नतश्चान्तरतमे स्पर्शे चरितार्थ लब्धप्रयोजनोऽयमनुनासिकविधि स्थान मात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थ । ‘यूनि लब्धे तु युवतिर्जरठे रमते कथम्’ इति