पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८३
बालमनोरमा


मपरे हकारे परे मस्य म एव स्याद्वा । “हृल्, ह्मल् , चलने' । किम् ह्मलयति-कि ह्मलयति । * यवलपरे यवला वेति वक्तव्यम्’ (वा ४९०२)

१२८ । यथासंख्यमनुदेशः समानाम् । (१-३-१०)

समसम्बन्धी विधिर्यथासंख्य स्यात् । कियँ ह्य-कि ह्य. । किव् ह्वलयति-कि ह्वलयति । किल् ह्यादयति-कि ह्यादयति ।

१२९ । नपरे नः । (८-३-२७)

नपरे हकारे परे मस्य न स्याद्वा । किन् ह्रते-कि ह्रते ।

१३० । ड्णोः कुक्कुटुक्शरि । (८-३-२८)

डकारणकारया कुक्कुटुकावागमौ वा स्त शरि । कुक्कुटुकोरसिद्धत्वा


ण्यन्ताण्णिच् । 'ज्वल हृल ह्मल नमामनुपसर्गद्वा' इति मित्वाण्णौ मिता हूस्व । यवल परे ॥ यवला परा यस्मादिति विग्रह । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थे । यथासङ्खयम् । साम्यमिह सङ्खयातो विवक्षितम् । अनुदेश विधानम् । समानामिति यदि कर्मणि षष्ठी तर्हि स्थान्यादिभिस्म सङ्खयाना यत्र विधानम्, यया एवोऽयवायाव इत्यादो, तत्रैव यथासङ्खय प्रवृत्तिस्यात् । “समूलाकृतजीवेषु हन् कृन् ग्रह ' इत्यत्र न स्यात् । तत्र विधेयस्य णमुल एकत्वात् । अतस्समानामिति सम्बन्धसामान्ये षष्ठी । एवञ्च समूलाद्युपपदाना हनादि धातूनाञ्च समसङ्खयानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्खयाकसम्बन्धी विधिरेवेति तत्रापि यथासङ्खयप्रवृतिार्निर्बाधा । तदाह । समसम्बन्धी विधिरिति । यथासङ्खय मिति ॥ सङ्खयाशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपास्सङ्खयाघटितधर्मा विवक्षिता । तान् अनति क्रम्य यथासङ्खयम्। ततश्च एचोऽयवायाव इत्यादिषु प्रथमस्य स्थानिन प्रयम आदेश , द्वितीयस्य द्वितीय इत्येवक्रमेण स्यान्यादेशतन्निमित्तादीना समसङ्घयाकाना क्रमेण अन्वय प्रतिपत्तव्य इति फलित । प्रकृते च यपरके हकारे परे मकारस्य यकार , वपरके व , लपरके ल, इति सिध्ध्यति । किय् ह्य इति ॥ मस्य यत्वे रूपम् । ह्य इत्यव्ययम् । पूर्वेद्युरित्यर्थ । यत्वाभावे मोऽनुस्वार । किव् ह्वलतीति ॥ मस्य वत्व, ह्वल चलने, णिच् । किले् ह्मादयतीति ॥ मस्य लत्व, ह्यादी सुखे च, णिच् । नपरे नः ॥ हे इति वेति म इति चानुवर्तते । न परो यस्मादिति विग्रह । तदाह । नपरे हकार इत्यादिना । किन् हुत इति ॥ हुड् अप नयने, मस्य नत्वे रूपम् । तदभावे मोऽनुस्वार । ड्णोः कुक्कुटुक्शरि ॥ 'हे मपरे वा' इत्यत वेत्यनुवर्तते । कृक्च टुक्चेति समाहारद्वन्द्व आगमाविति । एतच्च आद्यन्तौ टकि । ताविति लभ्यम् । यथासङ्खयपरिभाषया डकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्, उकार उच्चारणार्थ । प्राड् पष्ट , सुगण् षष्ठ, इति स्थिते, यथाक्रम कुकि टुकि व तयो पूर्वावयवत्वेन पदान्तत्वात् जश्त्वमाशङ्कथाह । कुक्टुकोरिति । चयो द्वितीयाः ।