पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

(सू ३७८) पयोमुक्-पयोमुग्, पयोमुचौ, पयोमुच । 'ब्रश्च –' (२९४) इति षत्वम् । * स्को –' (सू ३८०) इति सलोप । जश्त्वचत्वें । सुवृट् सुवृड्, सुवृश्चौ, सुवृश्च । सुवृट्त्सु-सुवृट्सु ।

इति चान्ता

॥ अथ हलन्तपुल्लिंङ्गे तकारान्तप्रकरणम् ।।

वर्तमाने पृषन्महद्वहज्जगच्छतृवच्च' (उ २४१) एते निपात्यन्ते, शतृ वचैषां कार्य स्यात् । उगित्त्वान्नुम्। “सान्तमहत –’ (सू ३१७) इति दीर्घ. । मह्यते पूज्यत इति महान्, महान्तौ, महान्त । हे महन् । महत्त । महता, महद्भयामित्यादि ।


स्यात्। कुत्वे कर्तव्ये परसवर्णस्यासिद्धत्वादित्यास्ता तावत् । नोपधत्वमभ्युपेत्य आह। क्रुङिति। हल्डयादिलोपे सयोगान्तलोपे जकारस्य 'चो कु ' इति कुत्वम् । “क्विन्प्रत्ययस्य’ इत्यस्या सिद्धत्वात् । कुञ्भ्यामिति । सयोगान्तलोपे ञकारस्य “चो कु ' इति कुत्व डकार । अत्र प्रथमैकवचने भ्यामादावपि कुत्व निपातनादेव न भवति । चवर्गपञ्चमञकार एव सर्वत्रेति 'परेश्व घाङ्कयो ' इति सूत्र भाष्यकैयटस्वरस । पयोमुगिति । 'मुच्लृ मोक्षणे' क्रिप् । सुपूर्वात् “ओ वश्चू छेदने' इति धातो क्विपि “ग्रहिज्या' इति सम्प्रसारणे सुवृश्च्शब्द । तस्य विशेषमाह । तवश्रेति षत्वमिति । हल्डयादिना सुलोपे कृते चकारस्य षत्व मित्यर्थ । सलोप. इति । धातुपाठे ब्रश्च् इति सस्य श्चुत्वे कृते ब्रश्च इति निर्देश । तत्र श्चुत्वस्यासिद्धत्वात् * स्को ' इति सकारस्य लोप इत्यर्थ । “वावसाने ' इति चत्वें षस्य ट । तदभावे जश्त्वेन ड इत्यर्थ । सुवृत्स्विति ॥ चर्त्वस्यासिद्धत्वात् पूर्व “ड सि ' इति वा बुट् । ततश्चर्त्वमिति भाव ।

इति चान्ता ।

अथ तकारान्ता निरूयन्ते । अथ महच्छब्दे विशेष वक्तुमाह । वर्तमाने ॥ उणादिसूत्रमेतत् । निपात्यन्ते इति । तत्र 'पृष सेचने' 'बृहि वृद्धौ' अनयोर्गुणाभाव महे कर्मणि अतिप्रत्यय, गमेर्जगादेशश्चेति विशेष । शतृवदिति । शतृप्रत्ययान्तव दित्यर्थ । उगित्वादिति । शतृवद्रावेन सुटि उगित्वान्नुमित्यर्थ । सान्तेति ॥ सुटि महन्त्स् इत्यादिस्थिते नकारात् पूर्वस्य अकारस्य दीर्घ इत्यर्थ । मह्यते इति । “कर्तरि कृत्' इति कर्त्रर्थ बाधित्वा निपातनात् 'मह पूजायाम्' इति धातो कर्मणि अतिप्रत्यय इति