पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तपुल्लिंङ्गे पकारान्तप्रकरणम् ॥

गुप्-गुब, गुपौ, गुप. । गुब्भ्यामित्यादि ।

इति पान्ता ।


॥ अथ हलन्तपुल्लिंङ्गे शाकारान्तप्रकरणम् ॥

४२९ । त्यदादिषु दृशोऽनालोचने कञ्च । (३-२-६०)

त्यदादिघूपपदेष्वज्ञानार्थादृशेर्धातो कञ् स्यात्, चात् किन् ।

४३० । आ सर्वनाम्रः । (६-३-९१)

सर्वनाम्न आकारोऽन्तादेशः स्यादृग्दृशवतुषु । कुत्वस्यासिद्धत्वात् व्रश्च -' (सू २९४) इति ष । तस्य जश्त्वेन ड । तस्य कुत्वेन ग । तस्य चर्त्वेन पक्षे क. । तादृक्-तादृग्, तादृशौ, तादृश । * षत्वापवादत्वात्कुत्वेन खकार


अथ पकारान्ता निरूप्यन्ते। गुबिति॥ ‘गुपू रक्षणे' क्विप् । 'आयादय आर्धधातुके वा' इति वैकल्पिकत्वादायप्रत्ययो नेति भाव । गुब्भ्यामिति ॥ 'स्वादिषु' इति पदत्वात् भ्यामादौ जश्त्वमिति भाव ॥ इति पान्ता अथ शकारान्ता निरूप्यन्ते । तादृक्शब्द व्युत्पादयितुमाह। त्यदादिषु ॥ चकारात् स्पृशोऽनुदके क्विन्’ इत्यत क्विन् अनुकृष्यते । आलोचनमिह ज्ञानसामान्य विवक्षितम् । तदाह । त्यदादिष्वित्यादिना । अनालोचने किम् । त पश्यति तद्दर्श । 'कर्मण्यण् ।' कञि तु कित्वात् गुणो न स्यात् । तद्शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद् दृश् इति स्थिते । अा सर्वनास्रः ॥ आ इत्यविभक्तिकनिर्देश । “दृग्दृशवतुषु' इति सूत्रमनुवर्तते । तदाह। सर्वनाम्नः इति ॥ अन्तादेशः इति। अलोऽन्त्यपरिभाषालभ्यम्। दकारस्य आत्वे सव र्णदीर्घ । तादृशू इति रूपम् । ततस्सुबुत्पत्ति । कुत्वस्येति ॥ तादृश् स् इति स्थिते हल्डयादिलोपे *क्विन्प्रत्ययस्य कु' इति कुत्वस्यासिद्धत्वात् 'व्रश्च' इति ष इत्यर्थ । तस्येति ।

  • त्रश्च' इति सम्पन्नस्य षकारस्येत्यर्थ । तस्य कुत्वेनेति ॥ डकारस्य 'क्विन्प्रत्ययस्य कु'

इति कुत्वेन गकार इत्यर्थ । तस्य चर्त्वेनेति ॥ गकारस्य “वावसाने' इति चर्त्वविकल्प इत्यर्थ । तादृगिति ॥ स इव दृश्यत इति न विग्रह । “कर्तरि कृत्' इति कर्तर्येव क्विन्वि