पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४३२ । स्पृशोऽनुदके क्विन् । (३-२-५८)

अनुदके सुप्युपपदे स्पृशे क्विन्स्यात् । घृतस्पृक्-घृतस्पृग्, घृतस्पृशौ घृतस्पृश. । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात्क्विष्यपि कुत्वम् । स्पृक् ।

इति शान्ता ।

॥ अथ हलन्तपुल्लिङ्गे षकारान्तप्रकरणम् ॥

  • ञि धृषा प्रागल्भ्ये' । अस्मात् * ऋत्विग्--' (सू ३७३) आदिना

क्विन् । द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्व जश्त्वेन ड ग क . । धृष्णोतीति दधृक्-दधृग्, दधृषौ, दधृष. । दधृग्भ्यामित्यादि । रत्नानि


नग्भ्याम्-नड्भ्यामिति ॥ कुत्वपक्षे जश्त्वेन गकार । षत्वपक्षे तु जश्त्वेन डकार । “मस्जिनशोर्झलि’ इति नुम् तु न । धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् । स्पृशोऽनुदके ॥ अनुदके सुपीति ॥ उदकशब्दभिन्ने सुबन्ते इत्यर्थ । 'सुपि स्थ ' इत्यत सुपीत्यनुवर्तते इति भाव । घृतस्पृक्-घृतस्पृगिति ॥ घृत स्पृशतीति विग्रहे क्विन् उपपदसमास । सुब्लुक् । घृतस्पृश्शब्दात् सुबुत्पत्ति । सोर्हल्डयादिलोप । ‘क्वि- न्प्रत्ययस्य’ इति कुत्वस्यासिद्धत्वात् पूर्व 'व्रश्च' इति ष । तस्य जश्त्वेन ड । तस्य कुत्वेन ग तस्य चर्त्वविकल्प इति भाव घृतस्पृग्भ्याम् । घृतस्पृक्षु । अथ क्विन्प्रत्ययस्य कु इत्यत्र “क्विन कु ' इत्येतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहण क्विन् प्रत्ययो यस्मादिति बहुव्रीहिलाभायेत्युक्त युक्शब्दनिरूपणावसरे । तस्य प्रयोजनमाह । क्विन् प्रत्ययो यस्मा दिति बहुव्रीह्याश्रयणात् क्विप्यपीति ॥ सति कुत्व भवतीति शेष । अनुदके सुप्युपपदे तावत् स्पृशे क्विन् विहित । अतो निरुपसर्गात् स्पृशे क्विबेव । तस्य सम्प्रति क्विन्नन्तत्वा भावेऽपि कुत्व भवत्येव । बहुव्रीह्याश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्व योग्यतालाभादिति भाव । षडगकाः प्राग्वदिति ॥ षत्वजश्त्वकुत्वचर्त्वैरिति भाव ॥ इति शान्ता ॥ अथ षकारान्ता निरूप्यन्ते । दधृष्शब्दस्य व्युत्पत्ति दर्शयति । ञि धृषेति ॥ आदिर्ञिटुडव ' इति ञि इत् । आकारस्तु “उपदेशेऽजनुनासिक ' इति इत् । ऋत्विगा दिनेति । किन्नादित्रय निपात्यते । क्विनि लुसे वृष इत्यस्य द्वित्वम् । 'उरत्' रपरत्वम् । हलादिशेष । कित्त्वान्न लघूपधगुण, दधृष् इति रूपम् । ‘ञ्णित्यादिर्नित्यम्' इत्याद्युदात्त निवृत्त्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति ॥ जश्त्व प्रति कुत्वस्यासिद्धत्वात् प्रथम जश्त्वेन षस्य डकार इत्यर्थ । गः कः इति ॥ 'क्विन्प्रत्ययस्य ' इति डस्य कुत्वेन गकार,