पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
षकारान्तप्रकरणम्]
२९३
बालमनोरमा ।

मुष्णातीति रत्नमुट्-रत्नमुड्, रत्नमुषौ, रत्नमुषौ । * षड्भ्यो लुक्' (सू २६१) षट्-षड, षडभि* । षडभ्य । षड्भ्य । ' षट्चतुर्भ्यश्च' (सू ३३८) इति नुट् । * अनाम्’ इति पर्युदासान्न ष्टुत्वनिषेध । “यरोऽनुनासिके -' (सू ११६) इति विकल्पं बाधित्वा *प्रत्यये भाषाया नित्यम्’ (वा ५०१७) इति वचनान्नित्यमनुनासिक. । षण्णाम् । षट्त्सु-षट्सु । तदन्तविधि । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषष । प्रियषषाम् । रुत्वं प्रति षत्व स्यासिद्धत्वात् * ससजुषो रु '(सू १६२) इति रुत्वम् ।

४३३ । र्वोरुपधाया दीर्घ इकः । (८-२-७६)

रेफवान्तस्य धातोरुपधाया इको दीर्घ स्यात्पदान्ते । पिपठी , पिप ठिषौ, पिपठिष । पिपठीर्भ्याम्। “ वा शरि'(सू १५१) इति वा विसर्जनीय ।


तस्य चर्त्वेन ककार इत्यर्थ । रत्नमुडिति ॥ 'मुष स्तेये' क्विप्, उपपदसमास, सुब्लुक्, हल्डयादिलोप, जश्त्वचत्वें, इति भाव । षष्शब्दो नित्य बहुवचनान्त । तस्य बहुवचने ष्वेव रूपाणि दर्शयति । षड्भ्यो लुगिति ॥ अनेन जश्शसो लुकि जश्त्वचर्त्वे इति शेष । तदन्तविधिरिति ॥ 'षड्भ्यो लुक्, षट्चतुर्भ्यश्च' इत्यनयोराङ्गत्वादिति भाव । प्रिया षट् यस्येति बहुव्रीहौ प्रियषष्शब्दस्य एकद्विबहुवचनानि सन्ति । प्रियषट्-प्रियषड्, प्रिय षषौ, प्रियषष, इत्यादि रत्नमुष्शब्दवत् । तत्र 'षडभ्यो लुक्' इति 'षट्चतुर्भ्यश्च' इति च लुड्नुटावाशङ्कय आह । गौणत्वे त्विति षड्भ्य इति, षट्चतुर्भ्य इति च बहुवचननिर्देशबलेन तदर्थप्राधान्य एव लुड्नुटो प्रवृत्तेरिति भाव । पठितुमिच्छतीत्यर्थे 'पठ व्यक्ताया वाचि' इति धातो “धातो कर्मणस्समानकर्तृकादिच्छाया वा' इति सन्प्रत्यये सन्यडो ' इति द्वित्वे हलादिशेषे 'सन्यत ? इत्यभ्यासस्य इत्व, सन इट्, षत्व, ‘सनाद्यन्ता इति धातुत्वम् । पिपठिष इत्यस्मात् क्विप्, “ अतो लोप ', पिपठिष्, इति षकारान्तम्। कृदन्तत्वात् प्रतिपादकत्व, ततस्सु, तत्र विशेष दर्शयति । रुत्व प्रतीति ॥ “क्वौ लुप्त न स्थानिवत्' इति निषेधाद्धल्डयादिलोपे कृते “ससजुषो रु ' इति रुत्वम् । न च सकाराभाव श्शङ्कय । रुत्व प्रति षत्वस्यासिद्धत्वादित्यर्थ । र्वोरुपधायाः ॥ र्च, व् च, वौं तयेरिति विग्रह । *सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणम् । तदन्तविधि । पदस्य' इत्यधिकृतम् । “स्कोस्सयोगाद्यो ' इत्यत अन्त इत्यनुवर्तते । तदाह । रेफेत्या दिना ॥ पिपठीरिति ॥ ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भाव । पिपठीर्भ्यामिति ॥ खादिषु' इति पदत्वात् 'वॉरुपधाया 'इति भ्यामादौपदान्तत्वलक्षणो दीर्घ इति भाव । सुपि विशेषमाह। वा शरीति ॥ पिपठिष्सु इति स्थिते षत्वस्यासिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्व बाधित्वा 'वा शरि' इति विकल्पेन विसर्जनीय । तदभावपक्षे विसर्जनीयस्य सत्वमि त्यर्थ । तत्र विसर्जनीयपक्षे पिपठी सु इति स्थिते, इण्कवर्गाभ्या परत्वाभावात् “ आदेशप्रत्यययो