पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४३४ । नुम्विसर्जनीयशर्व्यवायेऽपि । (८-३-५८)

एतै. प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेश स्यात् । ष्टुत्वन पूर्वस्य षत्वम् । पिपठीषु-पिपठी षु। प्रत्येकम्’ इति व्याख्यानादनेक व्यवधाने षत्वं न । निस्स्व । निस्से । नुम्ग्रहण नुम्स्थानिकानुस्वारोपलक्षणार्थ, व्याख्यानात् । तेनेह न । सुहिन्सु । पुसु । अत एव न शर्ग्रहणेन गतार्थता । रात्सस्य' (सू २८०) इति सलोपे विसर्ग । चिकी, चिकीर्षौं, चिकीर्ष ।


इति षत्वे अप्राप्ते । नुम्विसर्जनीय ॥ इण्को इति, मूर्धन्य इति चानुवर्तते । तदाह । एतैः प्रत्येकमित्यादिना । अत्र प्रत्येकमेव नुमादिभिर्व्यवधान विवक्षितम् । न तु * अट्कु प्वाड्’ इतिवत् यथासम्भव व्यवधानमिति भाष्ये स्पष्टम् । ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भाव । विसर्जनीयस्य सत्वपक्षे आह । ष्टुत्वेनेति । पिपठीस् सु इति स्थिते प्रथमसकारेण शरा व्यवायमाश्रित्य ईकारादिण परत्वात् द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य ष्टुत्वेन षकार, नतु “ आदेशप्रत्यययो । ' इति ष । तत्र अपदान्तस्य इत्यनुवृत्तोरिति भाव । एवञ्च 'नुम्शर्व्यवायेऽपि' इत्येव सिद्धे विसर्जनीयग्रहण व्यर्थमित्याहु । अयोगवाहाना शर्ष्वपि पाठादिह विसर्जनीयग्रहण भाष्ये प्रत्याख्यातम्। निस्स्वेति ॥ 'णिसि चुम्बने' लुग्विकरण । 'णो न ' इति णस्य न, इदित्वान्नुम् । अनुदात्तेत्वादात्मनेपदम् । लोण्मध्यमपुरुषेकवचन थास्, यास से 'सवाभ्या वामौ' इत्येकारस्य वत्वम् । निन्स्व इति स्थिते “नश्वापदान्तस्य ’ इत्यनुस्वारे निस्स्वेति रूपम् । अत्र यथासम्भव व्यवधाना श्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्व स्यात् । अत प्रत्येक व्यवधानमाश्रितमिति भाव । निस्से इति ॥ उक्तधातोर्लण्मध्यमपुरुषैकवचन थास् । तस्य “थास से' इति से आदेश । निसूसे इत्यत्रापि द्वितीयसकारस्य षत्व न भवति । प्रत्येकमेव व्यवधानाश्रयणादिति भाव । 'हिसि हिसायाम्' सुपूर्वादस्मात् क्विम्, इदित्वान्नुम्, ततस्सप्तमीबहुवचने सुहिन्स्सु इति स्थिते प्रथमसकारस्य सयोगान्तलोपे सुहिन्सु इति रूपम् । “स्वादिषु' इति पदान्तत्वात् “नश्चापदान्तस्य' इत्यनुस्वारो न । किञ्च पुम्शब्दात् सप्तमीबहुवचने पुससु इति स्थिते प्रथमसकारस्य सयोगान्तलोपे पुसु इति रूपम् । तत्र सुहिन्सु इत्यत्र नुमा व्यवधानात् षत्व स्यात् । नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे तु पुसु इत्यत्र षत्व स्यादित्यत आह । नुम्ग्रहणमिति । व्याख्यानादिति ॥ प्रकृतसूत्रे 'हयवरट्’ सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थ । नुम्ग्रहण नुम्स्थानिकानुस्वारोपलक्षणार्थमित्येतत् सूत्राक्षरा नुगतमित्याह । अत एव न शर्ग्रहणेन गतार्थतेति ॥ नुम्ग्रहणस्य नुम्स्थानिकानुस्वारो पलक्षणार्थत्वादेव शर्ग्रहणेन नुम्ग्रहणस्य गतार्थता लब्धप्रयोजनता नेत्यर्थ । नुम्ग्रहणस्य केवला नुस्वारोपलक्षणार्थत्वे तु शरग्रहणेनैव सिद्धत्वात् तद्वहणमनर्थक स्यात् । अनुस्वारस्य शर्ष्वपि पाठादिति भाव । चिकीरिति ॥ कृधातोस्सनि 'इको झल्’ इति सन कित्त्वादृकारस्य गुणाभाबे 'अज्झनगमा सनि ' इति दीर्घ । तत “ऋत इद्धातो ' इति इत्वम्, “हलि च '