पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति


२९६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

क्विपि तु “स्को –’ (सू ३८०) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । “ तस्य दोष संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् । तस्मात्सयोगान्त लोप एव । तक्-तग् । गोरक्-गोरगम् । “स्को-' (सू ३८०) इति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोप. । पिपक्-पिपग् । एवं विवक् । दिधक् ।

इति षान्ता


रक्ष पालने' इत्यस्मात् कर्मण्युपपदे अणि प्राप्ते, वाऽसरूपन्यायेन क्विपि सुबुत्पत्तौ तक्ष्शब्द वद्रूपम् । तक्षिरक्षिभ्यामिति ॥ इकारनिर्देशोऽयम् । तक्ष् रक्ष इति धातुभ्या 'हेतुमति च' इति णिच् । चकार इत् । “चुट्' इति णकार इत् । तत 'सनाद्यन्ता ' इति धातुत्वात् क्लिपि “णेरनिटि' इति णिलोपे, क्लिपि लुप्ते, तक्ष्, रक्ष्, इति षकारान्ते रूपे । ततस्सुलोपे सति सयोगान्तलोपापवाद *स्को सयोगाद्यो ' इति ककारस्य लोपो न प्रवर्तते इत्यर्थ । णिलोपस्येति ॥ “णेरनिटि' इति णिलोपस्य * अच परस्मिन्' इति स्थानिवत्वादित्यर्थं । तस्य दोषः इति । तस्मादिति । “स्को ' इत्यस्याप्रवृत्तेरित्यर्थ । सति च षकारस्य सयोगान्तलोपे ककारस्य जश्त्वचर्त्वे इत्यभिप्रेत्य आह । तक्-तग् । गोरक्-गोरगिति ॥ डु पचष पाके' अस्मात् सनि “सन्यडो ' इति द्वित्वम्, हलादिशेष । 'सन्यत ' इत्यभ्यासा कारस्य इत्वम् । 'चो कु ' इति चकारस्य कुत्वम् । प्रत्ययावयवत्वात् सस्य ष । पिपक्ष् इति रूपम् । ततस्सोर्लोपे ‘स्को ' इति ककारस्य लोपमाशङ्कय आह । कुत्वस्यासिद्धत्वादिति ॥ चकारस्थानिकस्येति शेष । सति च षकारस्य सयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्त ककारस्य निवृत्तौ पदान्तत्वात् कुत्वे जश्त्वचर्त्वे इत्यभिप्रेत्य आह । पिपक् पिपगिति ॥ पिपक्षौ, पिपक्ष , इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे “वच परिभाषणे । इत्यस्मात् विवक्ष्शब्द पिपक्ष्शब्दवदित्यर्थ । दिधगिति ॥ दग्धुमिच्छतीत्यर्थे 'दह भस्मीकरणे' इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्वे , दिदह्स इति स्थिते ‘दादेर्धतोर्ध इति हर्स्य घत्वे “एकाचो बश ' इति दकारस्य धत्वे, दिधघ्स इति घकारस्य र्चर्वेन ककारे प्रत्ययावयवत्वात् सस्य षत्वे तत क्विपि अतो लोपे दिधक्ष् इति रूपम् । तस्मात् सुबुत्पत्तौ सोर्लोपे कुत्वस्यासिद्धत्वात् “स्केा ' इत्यभावे षकारस्य सयोगान्तलोपे खर्परत्वाभावात् पूर्व प्रवृत्तककारस्य व्यावृत्तौ पदान्तत्वात् जश्त्वचर्त्वे इति भाव । दिधक्षौ-दिधक्ष, इत्यादि ।

इति षान्ता