पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति


सकारान्तप्रकरणम्]
२९९
बालमनोरमा ।

बहुपुंसी' इत्यत्र “उगितश्च' (सू ४५५) इति डीवर्थ कृतेन * पूञो डुसुन् ( पातेर्डुसुन् ') इति प्रत्ययस्योगित्वेनैव नुम्सिद्धे पुमान् । हे पुमन् पुमासौ, पुमास । पुंस । पुसा, पुम्भ्याम्, पुम्भि । इत्यादि । पुसि । पुसु

स्वरस्य अन्तरङ्गत्वात् प्राप्ते । इष्यते तु असुडि कृते परमपुमस् इत्यत्र मकारादकारस्य । अत आह । विवक्षिते इति । “पुसोऽसुड्' इत्यत्र सर्वनामस्थान इति न परमप्तमी, किन्तु विवक्षिते इत्यद्याहृत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति तत प्रागेव असुडित्यर्थ आश्रीयते । एवञ्च सर्वनामस्थानोत्पत्ते प्रागेव असुडि कृते ‘समासस्य’ इत्यन्तोदात्तत्व, परमपुमस् इत्यत्र मकारादका रस्य भवतीति न दोष इति भाव। न च परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्ते प्रागन्तरङ्गोऽपि समासस्वर पकारादुकारस्य अकृतव्यूहपरिभाषया न भवति ।असुडेि कृते पकारादुकारस्य समासान्तताया प्रनड्क्ष्यत्वादिति वाच्यम् । विवक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूहपरिभा षाया अस्वीकार्यत्वादिति भाव अत्र असुडि उकार इत् उदित्कार्यार्थ इति प्राचीनमत दूषयितुमाह ।असुङ उकार उच्चारणार्थ: इति । न त्वित्सज्ञक प्रयोजनाभावादिति भाव । ननु उदित्कार्यमस्तिप्रयोजनमित्यत आह । पूञो डुंसुन्निति प्रत्ययस्य उगि त्वेनैव नुग्सिद्धेरिति ॥ ननु विनिगमनाविरह इत्यत आह । बहुपुसीत्यत्र उगि तश्च इति डीबर्थ कृतेनेति ॥ बहव पुमासो यस्या इति वहुव्रीहौ सुब्लुकि निमित्ता पायादसुडो निवृत्तौ बहुपुस्शव्दादुगित्वात् डीपि बहुपुसीशब्द । अत्र डीप असर्वनामस्थान त्वात्तस्मिन् विवक्षिते असुड प्राप्तिरेव नास्ति । डुसुन उगित्वादेव डीप् वक्तव्या । तदर्थ डुसुन उगित्वमावश्यकम् । तेनैव नुमोऽपि सिद्धत्वात् असुड उकार उच्चारणार्थ इति भाव । यद्यप्युणादिषु * पातेर्डुसुन्' इति वक्ष्यते । तथापि पाठान्तरमिद द्रष्टव्यम् । “स्त्रियाम्' इति सूत्रभाष्यकैयटयोस्तु सूते सस्य प, ऊकारस्य ह्रस्व, डुसुन् प्रत्यय इत्युक्तम् । पुमानिति डुसुन् इति कृतानुस्वारनिर्देश । ततश्च पुस्शब्दात् सौ विवक्षिते असुड् । डकार इत्, उकार उच्चारणार्थ, ‘डिच' इत्यन्तादेश । निमित्तापायादनुस्वारनिवृत्तौ पुमस्शब्दात् सु, उगित्वा सान्तमहत ? इति दीर्घ , सोर्लोप , सस्य सयोगान्तलोप, तस्यासिद्धत्वान्नलोपो नेति भाव । हे पुमान्निति ॥ ‘सान्तमहत ' इत्यत्र ' असम्बुद्वौ ' इत्यनुवृत्ते न दीर्घ इति भाव । पुमांसाविति ॥ असुडि पुमस् औ इति स्थिते नुमि 'सान्त' इति दीर्घ । “नश्च इति नुमोऽनुस्वार इति भाव । पुसः । पुसेति । शसादावसर्वनामस्थानत्वादसुड रूपम् । यय्परत्वाभावान्न परसवर्ण इति भाव ।पुम्म्यामिति।। सस्य सयोगान्तलोपे निमि त्तापायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भाव । । इत्यादीति पुसे । पुस, पुसो । पुंसीति अत्र यय्परत्वाभावान्न परसवर्ण ।नुम्स्थानिकानुस्वारस्यै वोपलक्षणात् “ नुम्विसर्जनीय ' इति षत्वन्नेति भाव वश कान्तौ' अस्मात् “वशे कन सि ' इति कनासिप्रत्यय ककार इत् । इकार उच्चारणार्थ प्रहिज्या' इति सम्प्रसारणम् । उशनस्शब्द, तस्य सौ विशेषमाह । ऋदुशनेत्यनङिति ॥ डकार इत्, अकार उच्चार नचव