पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति


श्रीरस्तु ।

॥ अथ हलन्तस्त्रीलिङ्गे हकारान्तप्रकरणम् ॥

४४० । नहो धः । (८-२-३४)

नहो हस्य ध. स्याज्झलि पदान्ते च । उपानत्-उपानद्, उपानहौ उपानहः । उपानद्भयाम् । उपानत्सु । उत्पूर्वात् “ष्णिह प्रीतौ' (धा १२०१) इत्यस्मात् * ऋत्विग्-' (सू ३७३) आदिना क्विन्, निपातनाद्दलोपषत्वे । किन्नन्तत्वात्कुत्वेन हस्य घ , जश्त्वचत्वें । उष्णिक्-उष्णिग्, उष्णिहौ, उष्णिह. । उष्णिग्भ्याम् । उष्णिक्षु ।

इति हान्ता ।


अथ हलन्तस्त्रीलिङ्गे हकारान्ता निरूप्यन्ते ॥ * णह बन्धने ' ' णो न ' उपनह्यते इति विग्रहे उपपूर्वात् सम्पदादित्वात् कर्मणि क्विप् “नहिवृति' इत्यादिना पूर्वपदस्य दीर्घ । उपानह्शब्द स्त्रीलिङ्ग, पादुका। 'पादूरुपानत्स्त्री' इत्यमर । नहो धः ॥ “हो ढ ' इत्यतो ह इत्यनुवर्तते । पदस्य इत्यधिकृतम्। ‘स्को सयोग’ इत्यत अन्ते इत्यनुवर्तते । ‘झलो झाल’ इत्यत झलेि इत्यनुवर्तते । तदाह । नहो हस्येत्यादिना ॥ “हो ढ ' इति ढत्वापवाद । उपा नदिति ॥ उपानह्शब्दात् सो हल्डयादिलोप , हस्य ध, जश्त्वचर्त्वे इति भाव । अत्र दकार एव तु न विहित । तथा सति नद्धमित्यत्र 'रदाभ्याम्' इति नत्वप्रसङ्गादित्यलम् । उपानद्भयामिति ॥ हस्य धत्वे जश्त्वमिति भाव । उपानत्स्विति ॥ धत्वे * खरि च । इति चर्त्वमिति भाव । उष्णिह्शब्द छन्दोविशेषवाची स्त्रीलिङ्ग । त व्युत्पादयितुमाह । ष्णिह प्रीतावित्यादिना ॥ दलोपषत्वे इति ॥ उदो दकारस्य लोप सस्य षत्वञ्च निपात्यत् इत्यर्थ । न च * धात्वादे षस्स ' इति कृतसकारस्य “ आदेशप्रत्ययो ' इत्येव षत्व सिद्धे किन्तन्निपातनेन इति वाच्यम् । ‘सात्पदाद्यो ' इति निषेधबाधनार्थ षत्वनिपातनस्यावश्य कत्वात् । न च उष्णिह्शब्दात् सुबुत्पत्ते पूर्व समासात् स्निह् इत्येतत् न पदम्। नितरा सकारस्य पदादित्वमिति वाच्यम् । पदादादिरिति पक्षे षत्वनिषेधप्रसत्ते इत्याहु । हस्य घः इति ॥ घोषनादसवारमहाप्राणसाम्यादिति भाव । नच * क्विन्प्रत्ययस्य ' इति कुत्वस्याऽसिद्धत्वात्

  • हो ढ ' इति ढत्वमेवोचितामिति वाच्यम् । षत्वापवाद कुत्वमिति कैयटादिमते तुल्यन्याय

तया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचर्त्वे इंति ॥ नच जश्त्वे कर्तव्ये