पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
रेफान्तप्रकरणम्]
३०५
बालमनोरमा ।

॥ अथ हलन्तस्त्रीलिङ्गे वकारान्तप्रकरणम् ॥

द्यौः, दिवौ, दिव । द्युभ्याम् । द्युषु ।

इति वान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे रेफान्तप्रकरणम् ।।

गीः, गिरौ, गिर । एवं पू. । चतुरश्चतस्रादेश. । चतस्र. । चतस्र । चतसृणाम् ।

इति रेफान्ता ।


क्विन्प्रत्ययस्य कु ' इति कुत्वस्यासिद्धत्व शङ्कयम् । उष्णिगञ्चु, इति निर्देशेन जश्त्वे कर्तव्ये कुत्वस्यासिद्धत्वाभावज्ञापनातू । वस्तुतस्तु ‘क्विन्प्रत्ययस्य कु' इति कुत्व षत्वापवादो न भवति, इति मूलकारमते तुल्यन्यायात् टत्वस्यापि नापवाद । ततश्च तद्रीत्या ढगका इति बोद्यम् ॥

इति हान्ता ।

अथ वकारान्ता निरूप्यन्ते ॥ द्यौरिति । दिवुशब्द स्त्रीलिङ्ग । “द्योदिवौ द्वे स्त्रियाम्' इत्यमर । तस्मात् सु, 'दिव औत्' इति वकारस्य औकार , इकारस्य यण, रुत्व विसगौं, सुलोपस्य औत्वस्यानिभूतवकाराश्रयत्वेनाल्विधित्वात् स्थानिवत्त्वाभावात् न हल्डया दिलोप इति भाव । द्युभ्यामिति ॥ भ्यामादौ हलि 'दिव उत्' इत्युक्त्वमिति भाव. ॥

इति वान्ता ।

अथ रेफान्ता निरूप्यन्ते । गीरिति ॥ ‘गृ निगरणे' क्विप्, 'ऋत इद्धातो ' इति इत्त्व, रपरत्व, गिर्शब्दात् सुबुत्पत्ति, सोर्लोप , ' र्वोरुपधाया ' इति दीर्घ, रेफस्य विसर्ग इति भाव । भ्यामादौ तु हलेि ' 'र्वो इति दीर्घ, गीर्भ्यामित्यादि । गीष्षु-गी षु । एवं पूरिति ॥ गीर्वेदित्यर्थ । ‘पृ पालनपूरणया ' क्विप्, ‘उदोध्यपूर्वस्य' इत्युत्त्व रपरत्वम् । पुर्शब्दात् सो र्लोप, 'र्वो' इति दीर्घ, रेफस्य विसर्ग इति भाव । चतुरश्चतस्रादेशः इति । जश्शसो स्रीलिङ्गस्य चतुर्शब्दस्य “त्रिचतुरो स्त्रियाम्' इत्यनेनेति शेष । चतस्रः इति ॥ परत्वात् ‘चतुरनडुहो' इत्याम बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम् तु न। ‘विप्रतिषेधे यद्वाधित तद्वाधितमेव' इति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति ॥ “न तिसृ चतसृ' इति दीर्घनिषेध ॥

इतेि रेफान्ता ।

89